पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२७२

पुटमेतत् सुपुष्टितम्
240
आयुर्वेदसूत्रे

आकारतत्त्वपद्मजनकम् । तद्वायुतत्त्वपद्मजनकम् । तत्तेजस्तत्वपद्मजनकम् । तदम्बुतत्त्वपद्मजनकम् । तत्पृथिवीतत्त्वपद्मजनकम् । तत्सजातीयाम्लरसविरसवद्विकारो भूत्वा पृथिवीतत्त्वमम्बुतत्वे विलीयते । स्वादुरसात्मकाम्बुतत्त्वं स्वादुरसविरसवद्विकारो भूत्वा तेजस्तत्त्वे विलीयते । कटुरसान्तर्हितलवणरसगुणविशिष्टतेजस्तत्त्वं लवणरसविरसविकारो भूत्वा वायुतत्त्वे विलीयते । तिक्तरसगुणविशिष्टवायुतत्त्वं तिक्तरसविरसादनजन्यरोगग्रस्तं सत् आकाशतत्त्वे विलीयते । कषायरसात्मकाकाशतत्त्वं कषायरसविरसादनजातामयग्रस्तं सत् स्वयमेव विलीयते । अयं संहारक्रमः । तत्तत्पद्मनिष्ठरसाः तत्तत्सजातीयविरसद्रव्यादनजातरोगाः संहारक्रमोपकारकाः । एतादृशार्थं मनसि निधाय षट्कमलानामाधरभूतपद्मं तत्तत्पद्मविनाशपूर्वकं तत्तच्छरीरान्तश्शरीरनाशं कुरुत इयर्थः ।

 ननु पञ्चभूतविकाराः पञ्चेन्द्रियाणि । तद्विकाराः षड्रसाः । सप्त धातवः । इति तत्र रसासृजी एकीकृत्य षड्रसात्मकोऽयमिति उपयुक्तत्वेन रसासृजी एकीकृत्य तथैव प्रतिपादितम् । रसा एव धातवः । धातूनां च रसानां च भेदाभावात् । अतः पञ्चमहाभूतानां इन्द्रियाणां विषयादिवत् रसादीनामपि तद्वदेव भूतविकारत्वं वक्तव्यम् । तस्माद्रसानां षट्संख्यागणनं व्यर्थं स्यादिति ऊषणरसान्तर्हितलवणरसस्य अस्थिधातुजनकत्वात् । एतावत्पर्यन्तं वर्णबोधकसिराणामेव ....... धातुमध्यगतस्सन् उभयपार्श्वधारकत्वेन दशदळपद्मं सहस्रसिरात्मकपद्माधारकषट्कोणचक्रस्य ....... त्वात् । लवणोषणरसयोरेकत्वेन दशदळपद्मात्मकास्थिधातुं सम्पद्य एधते । इत्यनुनयेत् । सकलवर्णोद्बोधकसिराधारचक्रमध्ये अदृष्टत्वात् सहस्रसिराधारक