पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२७३

पुटमेतत् सुपुष्टितम्
241
पञ्चमप्रश्नः

षट्कोणचक्रस्य अमृतोपजन्य.......त्वात् । एतावत्पर्यन्तं वर्णबोधकसिराणामेव तत्पोषकत्वं नान्येषामिति धातुमध्येऽन्तर्गतत्वात् .......सत्त्वेन तत्तद्वर्णबोधकपद्मानां सहस्रसिराधारकत्वात् । तेषाममृतसिरासंसर्गात् । लवणैक.......प्रधानजन्यानलभूतात्मकास्थिधातुजनकषट्कोणचक्रस्य अमृतोपहरणशीलाभावत्वात् इत्यस्वरसादाह--इडेति ।

 इडापिङ्गलापूरितानिलतत्सिरागतामृतं सिञ्चति[१] ॥ ४० ॥

 इडापिङ्गलपूरितानिलात्मकषट्कोणचक्रबोधककुम्भकानिलपूरणकार्यहेतुकः सः इडापिङ्गलपूरितानिलशिरःकमलादमृतमावृत्य तावत्सिरास्संपूर्य षट्कोणानिलचक्रस्य उन्मीलिनद्रव्यत्वात् अनलानिलद्रव्ययोस्सहसंचारयोः द्रव्य.......पिङ्गलपूरितानिलानलप्रज्वलनकार्यस्य व्यञ्जनानिलत्वात् । तस्मात्पवनपूरणचक्रप्रतिभासहेतुरित्यर्थः ।

 ननु रेचकपूरककुम्भकानिलेन उदरकुम्भमापूर्य अमृतं सिञ्चतीति यत् तच्चिन्त्यम्, षट्कोणचक्रस्य कुण्डल्यधस्स्थितत्वात् । कुण्डल्युपरिगतपद्मानामेव तत्पूरणकार्यकरणप्रतिपादनात् । कुण्डलीडापिङ्गलपवनेन अमृतसेचनकवर्णस्स्यादित्यस्वरसादाह-- पृष्ठेति ।

 पृष्ठोरूदरजङ्घाशिश्नोपस्थदेशाद्यैरभिवर्धते ॥४१ ॥

 AYURVEDA
31
 


  1. एतत्सूत्रात्प्राक् "तिक्तोषणरसप्रधानजन्यमेदोधात्वाधारदशदळपद्मं सहस्रसिराधारकं षट्कोणचक्रं प्रतिभाति" इति A कोशे. "षट्कोणचक्रं प्रतिभाति" इत्येतावन्मात्रं B कोशे अधिकः पाठः.