पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२८२

पुटमेतत् सुपुष्टितम्
250
आयुर्वेदसूत्रे

रोगास्सम्भवन्ति । मूर्च्छारोगश्च हिक्कारोगश्च भ्रमविकारः रक्तवायुश्च शोभाश्च अङ्गकम्पश्चापस्मारश्च पादस्फुरणं च सम्भवन्तीत्यर्थः ।

 ननु सृष्टिसंहारक्रमद्वयमपि प्रतिपादितम् । पञ्चभूतानामुत्पत्तिक्रमः तत्संहारक्रमश्च ज्ञापितः । तथा सति दृष्टं जगच्छरीरात्मकं जीवच्छरीरात्मकं प्राणादिमत्त्वात् इतीदं जगत्सर्वं शरीरात्मकं प्रपञ्चात्मस्वरूपत्वात् इत्यनुमानप्रमाणेन स्वाङ्गशरीरोत्पत्तिः वक्तव्या । तत्र शरीरोत्पादकसामग्र्यां सत्यां नित्यं शरीरकार्यं जायते । शरीरोत्पादकसामग्र्यामसत्यां तत्कार्योत्पत्तेरशक्यत्वात् इत्यस्वरसादाह-- सकलेति ।

 सकलरसाधारादिभूतमङ्गुष्ठदळं नाभिपद्माधिष्ठितं त्रिकोणं नाम सरोरुहमजायत[१] ॥ ५० ॥

 सकलरसाधारादिभूतं नाम अङ्गुष्ठदळं षड्रसात्मकं सप्तधात्वात्मकं अवर्णोपधगकवर्गपञ्चवर्णाधारभूतं पञ्चभूतात्मकशरीरोत्पत्तेः आधारभूतत्वेन सकलरसाधारभूतमिति । अङ्गुष्ठदळमात्रविशिष्टनाभ्यधस्स्थितपद्मं त्रिकोणपद्मम्--

 अङ्गुष्ठमात्रः पुरुषोऽङ्गष्ठं च समाश्रितः ।

 इति श्रुत्यनुसारेण प्रकृतिपुरुषयोराधारभूतमिति तावेव प्रजाजननं कुरुतः । तयोरधिष्ठानत्वेन तत्र स्थितः असृगेव रस इति । अत एव शरीराधारभूतमिति सम्यक्प्रतिपादितम् । "रसो वै सः रसँह्येवायं लब्ध्वाऽऽनन्दी भवति" । इति श्रुतेर्विद्यमानत्वात् । तत्रैव त्रिकोणपद्मं पुरुषस्याप्यस्ति । बीजेऽ

  1. 'अङ्गुष्ठदळनाभिपद्मं सर्वार्थानां बीजभूतं त्रिकोणमजायत' इति--A & B.