पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३००

पुटमेतत् सुपुष्टितम्
268
आयुर्वेदसूत्रे
अब्भूतो[१]द्भवस्वादुरसश्शुक्लधातुगतविकारनिवर्तकः ।
८७
 
स्वस्थेष्वेवमरिष्टानां कायिकानामेवंविधिः ।
८८
 
बालानामेकमासम् ।
८९
 
मासैकस्यार्धं[२] दिनम् ।
९०
 
वातपित्तविकृतिविकारारोचकजातज्वरा न साध्याः ।
९१
 
पवनश्लेष्मविकृतश्वयथुविकारजातज्वरो मारकः ।
९२
 
श्लेष्मपित्तविकृतिविकारातिसारजातज्वरः शरीरनाशकः ।
९३
 
पित्तपवनविकृतिश्लेष्मविकारारतिजातज्वरः प्राणघातकः ।
९४
 
वातपित्तश्लेष्मविकृतिसर्वेन्द्रियविकारजातज्वरः शरीरनाशकः ।
९५
 
वेगधारणात्यशनादभिघातजामयानां अन्तरुदीरणानामल्पाशनमरसवद्द्रव्यं क्वचिद्दृश्यते ।
९६
 
अदृष्टार्थं वाञ्छन्ति ।
९७
 

इत्यायुर्वेदस्य सप्तमः प्रश्नः समाप्तः.


अथ अष्टमः प्रश्नः.


अहरहस्सरसादनमिच्छन्ति ।
 
अरिष्टगामी रोगहारकः ।
 
पृथिव्युद्भवरसासृक्कषायरसनेन्द्रियप्रवर्तकरसो रसोचितकषायनिवर्तकः ।
 
अबुद्भवमांसोषणरसः श्वयथुदूषकः ।
 


  1. आकाशभूतो-–A&C.
  2. मासैकसार्थं दिनम्--C.