स्थौणेयः
[१] तिक्तरसः शोभकासहिक्कावम्यरोचकहिध्माविनाशनः ।
४५
दीर्घायुस्स्वादुरसः रक्तपित्तानिलविनाशकः ।
४६
जीवकं
[२] कटुरसं चक्षुष्यं सर्वरोगजित् ।
४७
माषा स्वादुरसा रक्तपित्तहरा कफशुक्लकारिका ।
४८
वृष्यवल्ली स्वादुरसा बल्या वृष्या समीरजित् ।
४९
यष्टिः स्वादुरसा छर्दिविषमपित्तपवनापहा ।
५०
इक्षु
[३]स्स्वादुरसः श्वासकासपवनासृक्पितरसहरा रसायनी ।
५१
गोपा स्वादुरसा वातपित्तातिसारघ्नी ।
५२
कर्णिका स्वादुरसा लघुज्वरश्वासकासादिदाह
[४] जित् ।
५३
वाकूची
[५] स्वादुरसा कुष्ठवातज्वरविनाशिनी ।
५४
मदनस्तिक्तरसः क्षयगुल्मप्रमेहकारकः ।
५५
वंशस्तिक्तरसः
[६] कफविषहरो वर्ण्यः
[७] ।
५६
त्रपुसं स्वादुरसं वातासृक्पित्तमूत्रकृच्छ्रविकारजुनुत् ।
५७
कोशातकी स्वादुरसा वातपित्तगुल्मप्रमेहहारिका ।
५८
वन्ध्या कषायरसा पाण्डुशोभोदरार्शःकफपित्तातिसारजित् सरा
[८] ।
५९
धात्री
[९] कषायरसा कफपित्तहरा वृष्या ।
६०
विद्रुमः
[१०] तिक्तरसः नेत्रकण्ठरोगघ्नः केशवृद्धिकरो लघुः ।
६१
- ↑ स्थौणः--A.&.C.
- ↑ देवकं--A. वनं--C.
- ↑ बिक्षुः--A.&.B. निक्षुः--C.
- ↑ कासविदाह--A.&.C.
- ↑ दाहाची--B. वारुजिः--C.
- ↑ A.C. कोशयोस्त्यक्तमिदं पदद्वयम्.
- ↑ वृष्यः
- ↑ स्थिरा--B.
- ↑ रात्रिः--A.&.C.
- ↑ कतिद्रुमः--A.&.C.