पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३१७

पुटमेतत् सुपुष्टितम्
285
एकादशः प्रश्नः
हपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ।
३३
 
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ।
३४
 
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ।
३५
 
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ।
३६
 
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ।
३७
 
अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ।
३८
 
शौचात् स्वाङ्गे जुगुप्सा परैरसंसर्गः ।
३९
 
सत्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानिच ।
४०
 
सन्तोषादनुत्तमसुखलाभः ।
४१
 
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ।
४२
 
स्वाध्यायदिष्टदेवतासम्प्रयोगः ।
४३
 
समाधिसिद्धिरीश्वरप्रणिधानात् ।
४४
 
स्थिरसुखमासनम् ।
४५
 
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ।
४६
 
ततोद्वन्द्वनभिघातः ।
४७
 
तस्मिन् सति श्वासप्रश्वासयोः गतिविच्छेदः प्राणायामः ।
४८
 
सतु बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ।
४९
 
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ।
५०
 
ततः क्षीयते प्रकाशावरणम् ।
५१
 
धारणासु च योग्यता मनसः ।
५२
 
स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इव इन्द्रियाणां प्रत्याहारः ।
५३
 
ततः परम वश्यतेन्द्रियाणाम् ।
५४
 

इत्यायुर्वेदस्य एकादशः प्रश्नस्समाप्तः.