पुटमेतत् सुपुष्टितम्
290
आयुर्वेदसूत्रे
लक्षणान्यपि तथा ।
३
योग्यैस्तवच्च निवर्तयेत् ।
४
अनेकहेतुकद्रव्यमनेककार्यकृत् ।
५
अनामपालनं कुर्यात् ।
६
आमं हि सर्वरोगाणाम् ।
७
आदिभूतमाह ब्रह्मा ।
८
गन्धवद्गुणभूयिष्ठ पार्थिवद्रव्यावयवादिकरसविरसद्रव्यादनजन्यामपित्तविषयक्रिमिग्रस्तसिराविकाररसासृग्धातुविकारा अत्र दृश्यन्ते ।
९
रसविरसवद्द्रव्यादनाजीर्णजन्यामज्वरे लङ्घनं विशोषकद्रव्यं च तत्र भेषजम् ।
१०
तच्छोफपाण्ड्वामयातिसारार्शंसि कुष्ठरक्तपित्तमेहविकारा दृश्यन्ते ।
११
अनेकरोगानुगतो बहुरोगपुरोगमः । इतिहेतुकं षड्रसविरसद्रव्यं यथायोगं धातुनाशकृत् ।
१२
रसो ह्यसृक् । रसो वै सः । रसं हैवायं लब्ध्वाऽऽनन्दी भवति ।
१३
शुक्ले स्वादु । मज्जाऽऽम्लम् ! अस्थि लवणम् । मेदः तिक्तम् । मांसे ऊषणम् । कषायरसाः रसासृग्धातुपोषकाः ।
१४
रसासृक्स्वादु । मांसमाम्लं । मेदो लवणम् । अस्थि तिक्तम् । मज्जोषणम् । शुक्लं कषायरसः विरसः । विरसा रसासृग्धातुनाशकाः ।
१५
ये ये रसास्तद्भूतजातास्ते तत्तद्भूतपोषकाः ।
१६
रसोपरसलोहादिनाधारमहारसात्पञ्चभूतात्मकाः ये ये महारसाः महारोगनिवर्तकास्तत्तत्कृतिविषयकरसा जारणाभावनात्मकाः ।
१७