पुटमेतत् सुपुष्टितम्
310
आयुर्वेदसूत्रे
स्वर्जिकादिद्वादशपदार्थाः धूपलेपक्वाथीकृताः गुदाङ्कुरामयहारकाः ।
३०
करञ्जादेकादशार्थाः धूपलेपक्वाथतैलोपयुक्ताः अर्शोरोगनिवारकाः ।
३१
दशमूलाद्येकविंशद्रव्यं धूपलेपकाथतैललेहरूपं सत् गुदाङ्कुरामयताहारकम् ।
३२
अतिविषादिपञ्चदशपदार्थाः चूर्णक्वाथलेहविकारभूता
अतिसारविकारहारकाः ।
३४
मरीच्याद्यष्टादशद्रव्यं तद्वदतिसारनिवर्तकम् ।
३५
पथ्यादित्रयोदशद्रव्यचूर्णक्वाथाभ्यां अजीर्णामयो निवर्तते ।
३७
विश्वादिदशद्रव्यं चूर्णक्वाथलेहरूपं सत् अजीर्णामरोगनिवर्तकम् ।
३९
मुस्तादिद्वादशद्रव्यं चूर्णक्वाथोपयुक्तं अजीर्णामयरोगनिवर्तकम् ।
४०
सैन्धवादिद्वादशद्रव्यं तद्वद्भेषजं मन्दाग्निरोगनिवर्तकम् ।
४२