पूर्वोक्तरीत्या देहस्य अनामयत्वं सम्पाद्य आत्ममनननिदिध्यासनयोगेन परमसुखं जीवोऽनुभवति । तत्र वचनं--
क्रमेणोपचिता दोषाः क्रमेणोपचिता गुणाः । |
अनामयकार्यकरणेन अरोगो भवन् स्वर्गसुखमेवानुभवतीत्यर्थः । एवमुक्तरीत्या देहस्य अनामयत्वं साधितम् । तावता आत्ममननसामग्री न प्रतिपादिता । किं अरोगवान्भवतीति दृढतरजठरानलवशत्वेन सर्वेन्द्रियाणां सर्वविषयभोक्तृत्वं साधितम् ? अनामयत्वमात्ममननसामग्रीमात्रजन्यत्वं न भवतीत्यस्वरसादाह अहमिति ।
अहम्प्रत्ययः कर्मकर्ता ॥ १३ ॥
अहंकाराधिष्ठितमात्रं रक्तोऽहं श्यावोऽहं इति प्रत्ययविषयकमहमिति ज्ञानम् । तथा ज्ञानवानहमिति अनुव्यवसायेन ज्ञातुं शक्तः सत्कर्माधिकारी भवेत् । सुकर्मणा आत्ममननं कर्तुं शक्यत इति ।
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । |
इति धर्मविषयकज्ञानगोचरत्वेन परब्रह्मणः मनोविषयकज्ञानगोचरत्वं सिध्यति । अधिष्ठानभूतोऽयमात्मा, यस्सिध्यति स एव जीवात्मा । तावुभौ शरीराधिष्ठितावेव । तयोरन्यस्य सर्वभोक्तृत्वं व्यपदेष्टुमाह--स्थानेति ।
स्थानवानहंकारी ॥ १४ ॥
परमात्मनामधिष्ठानरूपत्वं नोपपद्यते । तज्जीवात्मनां सम्भवतीत्याशयवानाहेत्यर्थः । यस्य यावत्कालो योगश्चरति तस्य अरोगित्वस्य स्वतस्सिद्धत्वादित्यत आह--यावदिति ॥