प्रयोजकमिति तत्सर्वं सङ्ग्रुहीतम् । एवं पुरुषार्थोपपादितो वेदितव्य इत्याह-- य इति ।
य एवं वेद ॥ ३५ ॥
एवमुक्तप्रकारेण ज्ञातव्य इत्यर्थः ।
एतावता निवर्त्यनिवर्तकज्ञानं जातम् । तावता उत्तमपुरुषार्थरूपफलं कथं लभ्यते इत्यत आह-- सेति ।
स चिरायुर्भवति ॥ ३६ ॥
ननु निवर्तका लोके बहवस्सन्ति । एकदा सर्वविषयकपदार्थज्ञानं सम्पादनीयं सर्वशरीराणां निवर्तकज्ञानं परमपुरुषार्थ इत्यर्थः । एतत्पदार्थज्ञानानन्तरं ज्ञानविषयककार्यकारणचिरकालजीवितस्य पुरुषार्थ उपलभ्यते ।
एतज्ज्ञानविषयकज्ञानमेव भेषजं भवतीत्याह-- तदिति ।
तदेव भेषजम् ॥ ३७ ॥
भेषजज्ञानानन्तरं चिकित्साकर्म व्याचष्टे-- सेति ।
सैव चिकित्सा ॥ ३८ ॥
नराश्वगजादिशरीराणां नानाविधरोगास्सम्भवन्ति । तन्निवर्तकानि वृक्षलतादियोग्यद्रव्याणि षड्रसात्मकपदार्थोपकारकाणि । आयुर्वेदप्रतिपादितार्थमालोकनं कुर्यादित्याह-- तावदिति ।
तावद्द्रव्यावलोकनं कुर्यात् ॥ ३९ ॥
दोषप्रकोपाभावकार्यहेतुभूतधातुदूषकयावद्विषयगोचरेन्द्रियाभिवर्धकद्रव्यावलोकनं कुर्यात् ।
षड्रसात्मकद्रव्याणि व्याचष्टे-- रसा इति ।