पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/८४

पुटमेतत् सुपुष्टितम्
52
आयुर्वेदसूत्रे

 षट्सहस्रत्रिंशत्सिरास्त्रिंशच्छल्याश्शतद्वयदशोत्तरसन्धयो नवाशीतिस्नायुपेशिधरा भवन्ति ॥ २ ॥

 शरीरमात्रं सर्वत्र सिरावृतम् । तथाऽस्थीनि सन्धयश्चाशयाश्च सर्वैरेभिरावृतं शरीरमिति । तत्सर्वं भूतमयम् । मातुरेवोत्पद्यन्त इत्यर्थः । दोषास्सिरावृता मर्मगता आशयस्थाश्च । एते स्वस्थदोषमार्गाः अन्यस्वस्थधातून्प्रविशन्ति । स्वस्थास्वस्थदोषविज्ञानार्थं सर्वशरीरं विभज्य तत्तज्ज्ञानं विज्ञाय दोषप्रकोपानपहर्तुं शक्यत एवेत्यर्थः । शरीरस्थितसिरादीन्विभजति ।

 ननु सप्तधातुधरास्सप्तत्वं च पवनसप्तत्वं चाश्रितम् । अन्तःप्रविष्टस्स्वादुरसो भूत्वाऽनिलप्रकोपं हरतीति यत्तदयुक्तं, धातुपोषककार्योपकारकत्वेनान्यथासिद्धत्वात् । त्वगन्तस्स्थरसासृगादयो यथाविधि मार्गे सञ्चारीकृताः । पवनप्रकोपस्य निवारकत्वं स्वादुरसस्य कथं भवेदित्यस्वरसादाह-- सप्तेति ।

 सप्तधातुधरास्सप्ताशयास्तन्मध्यगग्रहणीकलाजातः स्वादुरसोऽनिलप्रकोपं हरति ॥ ३ ॥

 अस्यार्थः–- सप्तत्वचः सप्तधातून्दधति । रसरक्ताद्यपि अनिलसञ्चाराद्यथामार्गमनतिक्रम्य स्थितस्थापकत्वमनिल एव हरति । तस्य तावन्मात्रोपकारकगुणत्वात् स्वादुरसः अनिलप्रकोपं हरतीति यत्तद्युक्तमितार्थः । गतागतकलोपकारकत्वं अनिल एव करोति । तस्मादनिलप्रकोपनिवृत्त्यर्थं स्वादुरसद्रव्यादनं युक्तमित्यर्थः । तत्र सूत्रवचनं--

प्राणादिभेदात्पञ्चात्मा वायुः प्राणोऽत्र मूर्धगः ॥
उरःकण्ठचरो बुद्धिहृदयेन्द्रियचित्तधृक् ।