पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/९२

पुटमेतत् सुपुष्टितम्
60
आयुर्वेदसूत्रे

रभूतं तज्जातमलनिस्सारणहेतुकं भवतीत्यर्थः । ननु स्त्रीपुरुषसाधारणलिङ्गमेढ्रपद्मे तत्तज्जातिजन्यस्वरा एव तत्तद्वर्णशरीरज्ञापकाश्शरीरभेदमपि तत्र जाता वर्णा एव ज्ञापयन्तीत्युक्तम् । तत्तद्देशस्थितगुदविवरस्यापि सरन्ध्रकत्वात् तद्गुदप्रदेशविवरं विहाय योनिलिङ्गमेढ्रपद्मस्थितरन्ध्राणां हीनाधिकत्वात् तत्तज्जातिजन्यस्वरज्ञापकगुदस्थितरन्ध्रमार्गं विहाय लिङ्गमेढ्ररन्ध्राधारसिरारन्ध्रमार्गगतपवननिस्सरणगघवर्णभेदज्ञानज्ञापकं भवतीत्याशयं मनसि निधाय गुदद्वाराधारभूतवर्णदेवतां विवृणोति-- ङेति ।

 ङोच्चारणहेतुकं पृष्ठदेशपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ २१ ॥

 ङकारानुबन्धदेवताधारभूतपृष्ठदेशपद्मं चतुस्त्रिंशत्सिरावृतम् । पृष्ठदेशपद्मविवरस्य विट्संसरणमात्र एव चरितार्थत्वात् सवर्णस्वराभेदज्ञापकं भवतीत्यर्थः ।

 सर्वाशयानामाधारभूतगुदावृतवलयपद्मयोनिलिङ्गमेढ्रपद्मावृतसिरावर्णाधारभूतगुदावृतचक्रपद्मं चछवर्णदेवतात्मकं विवृणोति चछेति ।

 चछवर्णोत्पादकं तत्पार्श्वपद्मं चतुर्दशसिरावृतम् ॥ २२ ॥

 गुदपद्मस्य वक्राकारेणावृतपद्मे तत्पार्श्वपद्मं पवननिस्सरणहेतुभूतचछवर्णदेवतात्मकं गर्भाशये आविर्भवतीत्यर्थः ।

 जठरानलरूपपाचकपित्तस्य आधारभूतजठरानिलपद्मं आविर्भवतीत्याह-- जझेति ।

 जझवर्णोच्चारणहेतुकं जठरानिलपद्मं चतुर्दशसिरावृतम् ॥ २३ ॥