पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/९५

पुटमेतत् सुपुष्टितम्
63
द्वितीयप्रश्नः

 पफवर्णस्थानबाहुप्रदेशं षोडशसिरावृतपद्मं मातुरङ्गं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं पफवर्णदेवतात्मकं बाहुप्रदेशमित्याह-- पफेति ।

 पफवर्णोत्पादकं बाहुपद्मं षोडशसिरावृतम् ॥

 पफवर्णोत्पादकं तथा बाह्वोः षोडशसिरावृतं सरन्ध्रकाभ्यन्तरधरबाहुप्रदेशपद्मं गर्भाशये आविर्भवतीत्यर्थः ॥

 जिह्वाग्रस्थितलालारूपरसादिबन्धनहेतुकं बभवर्णदेवतात्मकं द्विसिरावृतं जिह्वन्तःप्रदेशगतपद्मं मातुरङ्गात्स्रवत् तत्तत्सारगर्भाशयं प्रविश्य रसबन्धनपद्मं जायत इत्याह-- बभेति ।

 बभवर्णजनकं प्रकोष्ठप्रदेशपद्मं पञ्चाशत्सिरावृतम् ॥ ३२ ॥

 बभवर्णज्ञापकं रसबन्धनपद्मं सरन्ध्रकाभ्यन्तरधरं पञ्चाशत्सिरावृतप्रकोष्ठगतपद्मं बभवर्णदेवतात्मकं रसवद्द्रव्यादनसारजातं मातुरङ्गात्स्रवीभूतं प्रकोष्ठपद्मं गर्भाशये आविर्भवतीत्यर्थः ।

 अनुस्वारसहितबिन्दुरूपमवर्णदेवतात्मकं मनोविषयकयावच्छब्दोच्चारणजातार्थबोधकहस्तविन्यासज्ञापकं हस्तपद्मं जायत इत्याह-- मेति ।

 मवर्णोच्चारणहेतुकं सकलशब्दार्थज्ञापकं हस्तगतपद्मं पञ्चाशत्सिरावृतम् ॥ ३३ ॥

 ताल्वोष्ठपुटव्यापाराधीनशब्दार्थविषयज्ञापकयावत्सिरासजातीयव्यापकं हस्तपद्ममाविर्भवतीत्यर्थः ॥

 जिह्वाग्रस्थितलालारूपरसादिज्ञापकं यवर्णदेवतात्मकं द्विसि