पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/९६

पुटमेतत् सुपुष्टितम्
64
आयुर्वेदसूत्रे

रावृतजिह्वाग्रगतपद्मं मातुरङ्गात्स्रवीभूतरसबन्धनपद्मं गर्भाशये जायत इत्याह-- यवर्णेति ।

 यवर्णज्ञापकं रसबन्धनपद्मं द्विसिरावृतम् ॥ ३४ ॥

 सर्ववर्णज्ञापकहेतुभूतं लालारूपजलात्मकाविर्भूतं यवर्णदेवतात्मकं गर्भाशये जिह्वाग्रगतपद्मं जायत इत्यर्थः ।

 जिह्वाग्रस्थितपद्मपार्श्ववर्तिसरन्ध्रकाभ्यन्तररेफवर्णदेवतात्मकं मातुराहाररसपरिणामवशात् गर्भाशये जिह्वापार्श्वाग्रपद्मं जायत इत्याह-- रेफेति ।

 रेफवर्णोत्पादकमोष्ठपद्मं षोडशसिरावृतम् ॥
 लवर्णजनकं वाचस्पतिप्रदेशस्थं द्विसिरावृतम् ॥

 सकलवर्णोत्पादकवाचस्पतिप्रदेशगतमोष्ठपद्मं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं गर्भाशये दृश्यत इत्यर्थः ॥

 चतुर्विंशतिसिरात्मकलवर्णज्ञापकं तद्वर्णाधिष्ठितदेवतात्मकं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं नासिकाग्रगतपद्मं जायत इत्याह-- वेति ।

 ववर्णोत्पादकं नासिकाग्रगतपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ ३७ ॥

 गन्धवती पृथिवी सर्वद्रव्यनिष्ठगन्धं चतुस्त्रिंशत्सिरावृता जिघ्रन्ती गर्भाशयं प्रविश्य प्रादुर्भवतीत्यर्थः ॥

 एकैकसिरावृतं तालुद्वयगतपद्मं शवर्णोच्चारणहेतुभूतं आस्यप्रदेशं सम्प्राप्य श्रोत्रप्रदेशपद्मं भवतीत्याह-- शेति ।

 शवर्णज्ञापकं गन्धवहपद्मं द्विसिरावृतम् ॥ ३८ ॥