पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभटीये सभाष्ये त्रिभिः शतैस्तस्याप्येकं वर्षम् । तेषां शतं तस्यायुः । प्रलयकालश्च तावान् इत्येतचात्रैव सूचितम् । तत्र तस्य गतैर्वधैर्दिवसैर्वा न ग्रहगणित उपयोगः, कल्पादिगतकालेनैव ग्रहगतिरनुमीयते । तस्य रात्रौ ग्रहाणामभावाद् इति ततदिनादिकं न प्रदर्शितम् । वर्तमानकल्पगतं तु पूर्वमेव प्रदर्शितम् । ‘काहोमनवो ढ मनुयुग श्ख गतास्ते च मनुयुग छूना च । कल्पादेर्युगपादा ग च गुरुदिवसाच्च भारतात् पूर्वम् ।। ” इति । अत्रापि ‘काहमनवो ढ मनुयुग श्ख इत्यनेनाष्टोत्तरं सहनं ब्रह्म दिवसो ग्रहयुगानामित्येतत् सिद्धे, यतो द्वासप्ततियुगं मन्वन्तरं, मनव वैकस्मिन्नहनि चतुर्दश इत्युक्ते चतुर्दशगुणिताया द्वासप्ततेरष्टोत्तरसह स्रत्वं सिद्धम् । अतस्तेषामष्टोत्तरं सहस्त्रं ब्रह्मणां दिनमिति च सिद्धम् इति । गतास्ते च ते मनवश्च षड् गतः | मनुयुगानि छना च गतानि । (प्र?)वृत्तपूरणायात्र दीर्घप्रयोगः । सप्तमस्य मनोः सप्तविंशतिर्युगानि च कल्पादेः प्रभृति गतानि । वर्तमानचतुर्युगस्य पादा अपि त्रयो गताः । तदा गुरुदिवसा भारतात् पूर्वमष्टाविंशे युगे द्वापरान्ते कल्पादेः अश्रूयेता वान् काले गत इत्यर्थः it ७,८ ।। चंतुर्युगस्यार्धतो यो भेदस्तमेव(७)-- उत्सर्पिणी युगधं थश्चापसर्पिणी युगधं च । मध्ये युगस्य सुषमादावन्ते त्रुघ्षमेन्दूचत् ॥ ९ ॥ इति । अनेन कालकृता प्राणिनामवस्थोच्यते । चतुर्युगस्य पूर्वार्धेयु सार्पिणीकालः अपराधंमपसार्पिणीकालः । तिरश्चां मनुष्याणां च वीर्या- त्कर्षों धमत्कर्षश्च उत्सर्पिण्याख्यावस्था । तदपकर्षोऽपसर्पिणी नाम । जम्बू द्वीप एवैषा युगावस्था । प्लावा ? क्षा)दिषु पुनस्त्रेतायुगसम एव कृस्नः कालः । नन्वेव तु युगावस्था तेषु । तस्मादेतद्देशभर्देवैषावस्था । एषा युगा वस्था श्रीविष्णुपुराणेऽप्युक्ता उत्सर्पिणीत्यादिना । अथवा ज्योतिर्गातिविष यमेवैतत् सूत्रम् । तत्र युगशब्देन प्रहसामान्ययुगं वा ययेकयोयुगं वा विवक्ष्यते । तत्राद्यः पक्षो न युज्यते । क्षितिरवियोगादित्यादिना वक्ष्य माणेन विरोधात् । तत्र हि स्वग्रन्थकरणकाळे साम्यं गीतिकोक्तभगणा- 1. ‘र्थः 1 चतुर्युगस्य पू' ख. पाठः