पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभटीये सभाष्ये जा रिति शक्यमेव ज्ञातुं वक्तुं च । यः पुनस्तस्य वृद्धिद्वासनियमः तस्यैव दुखबोधत्वात् तद्णनस्यापि दुष्करत्वाज्ज्ञातुं वक्तुं चाशक्यत्वम् । सप्त विंशतिभागज्याव्यासार्धमण्डलजीवानामपि न तसाधनत्वं तयोर्नियमाभा वात् । पदवशात् परिधिभेदं कल्पयित्वा परिधिस्फुटी(क१ काग्रेण तद्वति कल्पनायामपि वृद्धिहासयोरपि नानारूपत्वसम्भवात् ततोऽपि तत्तत्काल गतायनचलनपरीक्षाया एव लाघवात् परीक्षणं क्रियतामियुक्तिः । तत्री- क्षणप्रकारश्च तत्र तत्रोक्तः । अत एव गर्गसंहितायां चन्द्रस्य नक्षत्रयोगेन यन्त्रैस्तदन्तरमवगम्य निरीक्ष्य तारादिनिर्णय उक्तः । अन्यत्राप्युक्तं गर्ग संहितायां ‘क्रियास्तत्तक्रियाशुद्धिर्विशुद्धिदंष्टिगोचरे । तथैव ज्ञानभूयस्त्वाद् दैवज्ञस्यावधारणा ॥?’ दैवज्ञस्य तत्तत्क्रियाया अशुद्धिर्विशुद्धिश्च दृष्टिगोचरे एव ज्ञानभूयस्त्वात् । साक्षात्कृतगोलन्यायत्वात् प्रत्यक्षपरीक्षणस्य सामर्थे स्यात् । तस्माद् दैवज्ञ यैव परीक्षया क्रियाया वा ग्रहाणां तर्कालभवदेशविशेषान्वयस्य च प- रक्ष्य निर्णेतुं सामथ्र्यम् । दैवज्ञस्य दृष्टयैव ग्रहस्थित्यवधारण गणितप्रकारस्य वा । न पुनः पूर्वशास्त्रोक्तगणितप्रकारेण तथा निर्णेतुं शक्यं, तत्र सङ्कथाया गणनस्य वीं प्रापयिकत्वसम्भवात् । अत एवोक्तं वराहमिहिरेण पञ्चसिद्धा न्तिकाख्ये करणे कर्तरिकध्याये ‘‘सङ्ख्या तु तेषां चिरजीविष्टा संवादहीना यद् िय्लभाजः । यन्त्रैर्मयोक्तैः खगचारसूक्ष्मंस्तन्त्र विना सिध्यति खेचराणास् । ’ इति । मयोक्तैर्मयेनोक्तैः मया उक्तैर्वा । चिरजीविछद्य चिरजीविभिः परीक्ष्य कपिता, इत्यनेन प्रायिकत्वमेव तस्य, न तद्वस्तवम् ईषत्थौल्यं स्यात् । कौशलेन चिरजीविन च तरतमभावेन वर्तमानं सौक्ष्म्यं स्थौल्यं वा न कचित् पर्यवस्यति पुरुषप्रयत्नस्य सापराधत्वात् । अत उक्तं भट्टपदैः ‘यश्च ग्रयक्षनिष्पत्तावपराधः कृतास्पदः । शब्दे स तदभिव्यङ्गथे प्रसजन् केन वार्यते ।” इति । तस्मात् परीक्षणेऽपि प्रसजत्रपराधः न केनचिदपि कार्येन वारयितुं 4. ‘दे’ झ. पा(ः, २. ‘च ’ ख. पाठः, ।