पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ आर्यभटीये सभाष्ये वोभयथापि प्रदर्शितत्वात् कतरत् स्फुटं वास्तवमिति नेदानीं निश्चितम् । तस्मादनयोरेकमपि न स्फुटमिति दोषत्वेनोक्यापि तपरीक्षैव हीक्रियते इत्यार्यभटानुमतमेवैतद्वाक्यम् । अनेनाप्यार्यभटसंख्याया अस्मद्दृष्टुसंख्यैव सूक्ष्मत्वेन ग्राह्य इत्येव प्रदर्शितम् । नह्यार्यभटाचार्योऽनेन निन्द्यते । स्वप्रणीतग्रन्थस्तुतिपरत्वादस्य । यस्मादाह वार्तिककारः--‘नहि निन्दा निन्थं निन्दितुं निन्दितादितरत् प्रशंसयितुमिति । ‘न्याधिका विंशतिरब्द स्तदेह मम जन्मनोऽतीता’ इति तैदानीं स्वस्य त्रयोविंशतिवयस्कत्वम्नदर्शन- मषि संख्यास्थौल्यप्रदर्शनपरमेव । एतावतैव कालेनास्माभिः परीक्ष्यैते भग् शादयः पठिताः । अत एवोभयथापि प्रदर्शितमौदयिकार्धरात्रिकयोरिति भाचः१० ॥ एवमेतैर्च्छिाफलप्रमाणैर्वक्ष्यमाणप्रकारेण परीक्ष्य निर्गतैः कालोऽनुमेय इत्याह -- युगवर्षमासदिवसाः समं प्रवृत्तास्तु चैत्रशुक्लदैः। कालोऽयमनाद्यन्तो ग्रह भैरनुमीयते क्षेत्रे ।। ११ ॥ इति । य एते युगवर्षमासदिवसाः कालभेदाः, ते सर्वे चैत्रशुक्लादेः प्रभृति समं युगपदेव प्रवृत्ताः । एवमयं कालः स्वान्तर्गतनानाभेदाभिन्नोऽना- वन्तोऽपि ग्रहमैलिंङ्गभूतैः क्षेत्रे भगोले कृत्स्नोऽप्यनुमीयते । यैथाथ गणकैः तिथ्यादयोऽनुमीयन्ते, एवं कालान्तरेऽपि तत्तत्कालभवास्तिथ्यादयो ग्रह मैङ्गिभूतैर्नक्षत्रराश्युपलक्षिते ज्योतिश्चक्रेऽनुमेयाः ! यथातीतः कालोऽन. न्तोऽपि प्राक्तनैर्गणकैस्तिथ्यादिलक्षणोऽनुमित इति भविष्यतोऽपि कृ स्नस्य तत्तकालभवैर्गणकैरनुमेयता स्यात् । यथा निशि पर्यटतां प्रदी पादिभिः स्वसमीपगतः प्रदेशो यावदपेक्षी दृश्यः, एवं सर्वैरपि स्वंस्वसमी प्रभवः कालो यावदपेक्षमनुमेयः । एवं तिथ्यादिकं सम्यगनुमीयानुमीय कालं यापयन्ति । एवमिहोक्तेनानुमानेन सदैव कर्मानुष्ठानयोग्यः काले ऽनुमेय इत्युक्तं भवति । अत एव भास्करोऽपि ‘भास्कराय नमस्तस्मै स्फुटेयं ज्योतिषां गतिः । प्रक्रियान्तरभेदेऽपि यस्य गद्यानुमीयते । ” इति । तस्माद् भगवत आर्यभटस्य ग्रहगतिप्रमाणतदनुग्राहकतर्कप्रतिपादन १. ‘ति न दो ', २• ‘तादि’, ३. ‘इ , ४. ‘ति । ए' , ५. ‘अ’, “स्व” की, प्रहः।