पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभटीये सभाष्ये ११. गतितुल्या । तस्या युगांशे ग्रहजवः युगेन भगे हृते इच्छाब्यक्तिषु प्रयेकं अहन्वो भवति । भवांशेऽर्कः भानां वशे षष्टयंशेऽको भ्रमति, यत्र भानि भ्रमन्ति तत्खट्यंशतुल्यायां स्वकक्ष्यायां तदन्तरंक भ्रमति । 'षष्ट्या सूर्या ब्दानां प्रपूरयन्ति ग्रहा भपरिणाहमि’ति अस्य विवरणम् । अनेनैव ग्रहाणां योजनगतसाम्यमपि सिद्धम् । दिव्येन नभःपरिधिमि’ति खशब्दविवरणम्। दिव्येन युगेन यावन्तं योजनात्मकं प्रदेशं ग्रहा गच्छन्तिं, तावानेव नभः परिधिरपि । स्वकक्ष्यास्वेकस्मिन् युगे ग्रहो यावकृत्यूो भ्रमति यावता दी बैंण सुत्रेण स्वभ्रमणप्रदेशं, तावत्कृत्वः परिधेयं तावदैश्वर्यं सूत्रं नभोमण्डलं प्रह्माण्डकटाहसंस्पृष्टं प्रदेशं सकृत् पारेिधातुमलमित्यर्थः । ‘समं भ्रमन्त’ इति अत्र हेतुः । योजनैमयमानस्य भ्रमणस्य साम्यात् । तथापि कलादिभिम- यमानाया गतेरन्योन्यं वैषम्यं स्यादिति तत्कारणमाहें 'मण्डलमल्पमधस्तात् कालेनाल्पेन पूरयति चन्द्रः । उपरिष्टात् सर्वेषां महच्च महता शनैश्चारी ॥ अल्पे हि मण्डलेऽल्पा महति महान्तश्च राशयो ज्ञेयाः । अंशाः कलास्तथैवं विभागतुल्याः स्वकक्ष्यासु ।” इति । चन्द्रस्तावदधस्ताद् वर्तमानं स्वभ्रमणमण्डलमन्येभ्योऽल्पमन्येषां भ्रमणकालादपेनैव कालेन पूरयतीत्यन्येषां सर्वेषामन्तर्गतमेव तन्मण्डलम् । सर्वेषामुपरिष्टात् पुनः शनैश्वरमण्डलमन्येभ्यो मण्डलेभ्यो महाच शनैश्वरी महता कालेनैव पूर्यतीति सप्तविंशस्या दिनैरेव चन्द्रः स्वमण्डलं पूयति । शनैश्चरः पुनः प्रायशस्त्रिंशता बुधैव । अतस्तस्य शनैश्चरत्वम् । गतिः समानैव सर्वेषाम् । यथा योजनहस्तादीनां लोके परिमाणं नियतम्, इतरथा व्यवहारासम्भवात् । तैर्हि भूप्रदेशाः शालादयश्च मीयन्ते । नैवम्भूताः कलादयः । कलादीनां मापकानां पुनः कृत्स्नमण्डलेषु सञ्जययैव साम्यम्। अत एव मण्डलमहत्वानुरूपं कलादीनामपि महत्त्वं स्यात् , तदल्पत्ववशाद पत्वं चेत्याह –‘अल्पे हि मण्डलेऽल्पा’ इति । तत्र हेतुर्विभागतुल्ययाः स्व कक्ष्याविति । स्वस्वमण्डलस्य द्वादशधा विभक्तस्य एकश एको राशिः, तस्यैव त्रिंशांशो भागःततः षष्टयंशा एव पुनः कलाविकलातत्परादय १. ‘रमों, २. ‘लाभि , ३. ‘३ –अल्पे हि', ४, ‘नं भ्र' क, पाठः .