पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ आर्यभटीये सभाष्ये हासात् द्वितीयपदादावृणात्मकस्य तस्य वृद्धश्च कर्णस्य वेगेन हासः स्यात् । द्वितीयपदादौ भुजाफलस्य हासशल्प एव । सदैव त्रिज्याया गुणकारत्वाच्च हारकभूतकर्णहासनिमित्ता वृद्धिः केवलभुजाफलस्य हासं जित्वा कर्णहृतं स्फुटभुजाफलं वर्धयति । अत एव परहितादिकरणपठितानां कक्ष्यादिभुजा फलानां विलोभनादीनां मध्यमपदपरिपूर्तेः प्रागेव हास आरभते । विनीश्वरो दुग्धगतिरित्यादौ मकरादावोजपदे वर्धमानस्य भुजाफलस्य द्वितीयपदेऽपि अन्यफलतुल्यायां कोटिज्यायामेव हासत्व(म)रभते । क्षीयमाणस्य कर्णस्य हारत्वात् तत्रैव चान्त्यफलतुल्यत्वं कर्णहृतस्य भुजाफलस्य, तदानीं दोर्याया एव कर्णत्वात् । तत्तुल्यत्वं च प्रतिमण्डलकर्मणि कोटिज्याया अन्यफल- शोधनेन शून्यत्वाद् विस्पष्टम् । तदापि दोयीपरिधिघातचक्रांशहूतस्य वा दोर्यान्त्यधातात् त्रिज्याहृतस्य वा भुजाफलस्य यद्यप्यन्यफळादल्पत्व मेव स्यात् , तथापि पुनस्तस्यैव त्रिज्यार्हतस्य दोज्यतुल्येन तात्कालिक कर्णेन हृतस्यान्त्यफलतुल्यवं च विस्सटं, यतोऽन्यफलस्य गुणहारयोरेव तत्फलस्य हारत्वं गुणकारत्वं च स्यात् । कर्णनिरपेक्षेऽपि शैलैकर्मण्यविशि घुस्य भुजाफलस्य स्फुटपदान्त एव वृद्धिर्निवर्तते । यतस्तत्र तत्तस्फुटदुईं। विशोध्य नीतां दोर्या परिधिहतां चक्रांशहृतामेव चापीकृत्य स्फुट मध्यमे पुनःपुनः संस्क्रियते । तस्मच्छेत्रे कर्मणि स्फुटपदवशादेव धन क्षयक्षयधनानि स्युरिति निधीयते । तस्माद्’ ऋणधनधनक्षयः स्युरि'युक्त मन्दगतिवृद्धिदंसयोरेव संशयः, तत्र विशेषानभिधानात् भास्करेणान्यथोक्त त्वाचेति । नैष दोषः । यतः ‘कक्ष्यायां ग्रहगइत्यादिना मान्दे विशेष विधानात् संशयच्छेदः स्यात् । मन्दनीचोचवृत्ते यो ग्रहवेगः ज्यारूपो मथुमस्फुरविप्रकर्षन्त्रैराशिकेनानीयते स कक्ष्यायामेव कक्ष्यामण्डलगत एव मध्यमस्फुटसूत्रयोर्विप्रकर्षः । ततः स एव मध्यमे संस्कार्यं इति । एतदुक्तं भवति – ‘वृत्तपरिधौ ग्रहास्ते मध्यमचारं भ्रमन्त्येवेति यदुक्तं, तद्वशत् यो मध्येमसूत्रात् ग्रह&त्रविप्रकर्षेः स एवात्र वेगशब्देनोक्तः । वेगो जवः गतिरिति यावत् । सोऽपि गतेरेकोंऽशः । स च पठितमन्द परिषेरिच्छाभूतात् त्रैराशिकेनानीतः । सोऽपि न मन्दवृत्तगतो ग्रहमध्य १. ‘त' ख. पाठः. २. क. पख्. ३. ‘वै’, ४. ध्यङ्ग, ५ , ‘‘असू' स्त्र. पद्धः ६. ‘स्त 'क. पादः