पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ४ आर्यभटीये सभाष्ये आनीयते । तस्मात् तत्रापि एतद्दोषपरिहाराय यतः कार्य इत्याशयः । अत एव गोविन्दस्वामिना ‘छेद्य ते’ इत्यादिनः तत्संस्कार उक्तः । तत ईषद्भिन्नः पारमेश्वरेऽपिः(गध्यै १ भाष्ये) चापेत्यादिनेक्तः । तत्रापि युक्तिदूषणं तदव स्थमेव, यतस्तत्र खण्डज्यान्तरस्यैव फलस्वं , चपेंशस्येच्छात्वं, चापभागस्य कृत्स्रस्य प्रमाणत्वम् । तस्मात् तस्यापि व्यावहारिकत्वमेव । खण्डज्यान यीसुत्रयुक्तिसिद्धत्वाच चन्द्राद्यादिश्लोकद्वयोक्तस्यैव युक्तियुक्तत्वम् । यत्पुनरुक्तं कर्णभुक्तिः स्फुटेति तच कंचिद् ग्राह्यम् । ‘‘नवांशाः पञ्चभोगस्य भूत्वर्गाशवेधस्य (?) । +तुरीयविलिप्ताभिः युतीने तनू स्फुटे ।” इति यदुक्तं बिम्बुकलानयने लघुकर्म तत्र कर्णभुक्तेिरेव ग्राह्या न वास्तवी । एवमन्यत्रापि नतिकलाद्यानयने । यत्र त्रिज्याकर्णद्वन्दूप्रतिनिधित्वेन स्फुटम ध्यभभोगद्वन्द्वं परिगृह्यते तत्र सर्वत्र कर्णभुक्तिरेव त्रिज्यास्थानीया, कर्णस्था नीया च मध्यमभुक्तिः । तास्कालिकीकरणेषु वास्तवी भुक्तिरेव ग्राह्या । सूर्यसिद्धान्तेऽपि कर्णभुक्तिसाधनानि बहूनि कर्माण्युच्यन्ते । तत्र सर्वत्र भास्करोक्तकर्णभुक्तिरेव ग्राह्या, तस्या एव त्रिज्याप्रतिनिधित्वात् । पारमे- धरोक्तकर्णभुक्तेः जीवाभुक्त्यासन्नत्वात् स्थित्यर्धादिविषयैव सेति विभागः ॥ कालक्रियापदः समाप्तः । शुभं भूयात् । ==

==

== • ८ ८ - ~ ~ ~ = "-- + * - - - - - - - - - - - - - - १. ‘नस्तत्र तत्र यु, २.. ‘त’ क. पाठः