पृष्ठम्:आर्यभटीयम्.djvu/105

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ঘলীক্ষ: ৭* ] इष्टवृत्तविष्कम्भः 以弘 शङ्कुः 12. छाया 5. अनयोर्वगौं 144, 25. योगः 169. श्रस्य मूलं स्ववृत्तविष्कम्भार्धम् 13. एतच्च त्रैराशिकार्थम्— यद्यस्य स्ववृत्तव्यासार्धस्य कर्णस्य एते शङ्कु- 12च्छाये कोटिभुजे, गोलव्यासार्धस्य के इति । एतच्च गोलपादे विस्तरेण प्रदर्शयिष्यामः । इति चतुर्दशं सूत्रम् ।। १४ ।। परिलेख: 11 [ शडकुछाये ] प्रदीपोच्छायादिष्टशङ्कोश्छायानयनमार्ययाऽऽहशङ्कुगुणं शङ्कुभुजा विवरं शङ्कुभुजयोर्विशेषहुतम्। यल्लब्धं सा छाया ज्ञेया शङ्कोः स्वमूलाद्धि ॥ १५ ॥ शङ्कुभुजाविवरम्। भुजाशब्देन दीपयष्टिरुच्यते। दीपयष्टेशशङ्कोश्च यदन्तरालं तच्छङ्कुगुणं शङ्कुना गुणितं शङ्कुभुजयोविशेषेण हृतं' शङ्कुप्रमाणस्य दीपयष्टिप्रमाणस्य च यो विशेषस्तेन हृतं स्यात् । तत्र यल्लब्धं सा शङ्कोः स्वमूलात् छाया ज्ञेया । उद्देशकः-- 'यष्टिप्रदीपमूलाद् द्वासप्तत्युच्छितातू स्थितोऽशीत्याम् । त्रिशक्तो विशत्यां स्थितस्य शङ्कोर्वदा छाये ॥ व्याख्या-1. E. विशेषहृतं 2. B. विश्लेष 3. A. B. रुवमूलच्छाया 4. C. om. [qfg to figurà T to grą T, three lines below.