पृष्ठम्:आर्यभटीयम्.djvu/121

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इलोकः ३० ॥ अव्यक्तमूल्यसमीकरणम् ६९

गुलिकाशब्देन अविज्ञातमूल्यं वस्त्वभिधीयते। अविज्ञातमूल्यानां वस्तूनामन्तरेण द्वयोः पुरुषयो रूपकविशेषं रूपकाणामन्तरं भजेत् । तत्र लब्धम्' एकस्या गुलिकाया मूल्यं भवति । यद्ब्रार्थकृतं रूपककृतं* तयोस्तुल्यत्वं यदि तयोः पुरुषयोः समधनत्वमित्यर्थः ।


उद्देशकः--

  द्वौ गावौ धनमेकस्य रूपाणां च शतत्रयम् ।
  पञ्च गावः स्वमन्यस्य रूपषष्टिशश्च ते समे ॥ 

न्यासः--एकस्य गाः 2, रूपम् 300. ग्रन्यस्य गाः 5, रूपम् 60. गुलिकान्तरम् 3, रूपकविशेषम् 240. एतद् गुलिकान्तरेण हृत्वा' लब्धं गोमूल्यम् 80. लब्धमेकैकस्य धनम् 460. एवं त्रिशं सूत्रम् ।। ३० ।।

                  [ ग्रहान्तराद् ग्रहयोगकालः ] 

ज्ञातगतिप्रमाणस्वरूपान्तरालयो'र्गच्छतोर्योगकालानयनमार्ययाऽऽह'- भक्ते विलोमविवरे

 गतियोगेनानुलोमविवरे द्वौ ।

गत्यन्तरेण लब्धौ

 द्वियोगकालावतीतैष्यौ ॥ ३१ ॥

विलोमविवरे परस्पराभिमुखं गच्छतोर्द्वयोः श्रन्तराले कलायोजनाद्यात्मकेन गतियोगेन एकदिवस'गतियोगेन विभक्ते सति अनुलोमविवरे एकदिग्गमनयोद्वयो'रन्तराले गत्यन्तरेण एकदिनगत्यन्तरेण' च विभक्ते सति लब्धौ हौं अतीतैष्यौ द्वयोर्योगकालौ भवतः ।

1. A. om. Tīrs E ; C. om. TTSET 2, D. E. रूपकृत 3. A• पञ्चानां वस्त्वमन्यस्य (wr.); C. पञ्चाना वस्वमन्यस्य (wr.) 4. E. om.हृत्वा 5. D. E. add द्वयो: 6. D. नयनमाह 7. E. विंशति for एकदिवस (wr.) 8. A. B. C. D. om. सति 9. B. om. द्वयो: 10. A. B. C. Hapl. om. of एकदिनगत्यन्तरेण