पृष्ठम्:आर्यभटीयम्.djvu/122

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Vo गणितपाद्धे vfüre उदाहरणम्-रविस्फुटभुक्तिकलाः 60, चन्द्रस्य 800. रविचन्द्रयोरन्तरालकलाः 1800. एतदनुलोमविवरम्' । श्रप्रतोऽस्मिन् गत्यन्तरेण 740, विभक्ते लब्धं दिनद्वयम् 2, शेषः 320. ग्रस्मात् षष्टिघ्नात् 19200, तेनैव विभज्य लब्धाः घटिकाः 25, शेषः 700. श्रप्रस्मादपि षष्टिगुणात् विनाडचादि ज्ञेयम् ॥ विलोमविवरि उदाहरणम्-रवेः स्फुटभुक्तिः 60. शुक्रस्य वक्रभुक्ति:* 30. द्वयोविलोमविवरम् 225. ग्रतो गतियोगेन 90, भक्ते लब्धं दिनद्वयम् 2. शेषः:* 45, श्रप्रस्मात् षष्टिघ्नात् तेनैव भागहारेण लब्धा घटिकाः 30. श्रप्रत्र मन्दगतावधिके गम्यः कालः, शीघ्रगतावधिके गतः । वक्रे तु यथान्यायमूहः कार्य:* ॥ एवमेकत्रिशं सूत्रम्। ३१ । [ कुट्टाकारगणितम् ] कुट्टाकारगणितप्रदर्शनार्थमार्याद्वयमाह अधिकाग्रभागहार छिन्द्यादूनाग्रभागहारेण । शेषपरस्परभक्तं मतिगुणमग्रान्तरे क्षिप्तम् ॥ ३२ ॥ अध उपरि गुणितमन्त्ययु गूनाग्रच्छेदभाजिते शेषम् । अधिकाग्रच्छेदगुर्ण द्विच्छेदाग्रमधिकाग्रयुतम् ॥ ३३ ॥ कुट्टाकारो द्विविधः, साग्रो निरग्रश्च । साग्रे तावद्योज्यते । तत्त्रोदाहरणम् त्रयोदशभिरेकाग्री यो राशिर्गणकोत्तम । चतुस्त्रिशद्धृतो द्वन्यग्रस्तं राशि वद पृच्छतः ॥ 1. D. अनुलोमविवरमेतत् 2. A. B. C. airfi: (wr.) 3. A. B. C. शेषात् 4. B. यथान्यायमूह्यः