पृष्ठम्:आर्यभटीयम्.djvu/132

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ कालक्रियापादः | कालविभाग: ] अथ कालक्रियापादो व्याख्यायते । तत्र कालविभागमाह— वर्ष द्वादश मासास् त्रिशद् दिवसो भवेत् स मासस्तु । षष्टिनाङयो दिवसः षष्टिस्तु' विनाडिका नाडी ॥ १ ॥ स्पष्टं प्रथमम्' ।।१।। आक्षदिवससम्बन्धिन्या विनाडिकायाः प्रमाणमार्यापूर्वाधेनाह गुर्वक्षराणि षष्टि र्विनाडिकाक्ष, षडेव वा प्राणाः ॥ ऋक्षशब्देन तदाधारभूतं *भमण्डलमभिधीयते । यावता कालेन तदेकं परिवर्तं करोति तावानाक्षों दिवसः, षष्टिघटिकात्मकः । तत्रैका घटिका षष्टिविनाडय इति स्थिते एकस्या विनाडयाः प्रमाणमुच्यते-एका विनाडिका षष्टिर्मुर्वक्षराणि यावता कालेन षष्टिर्मुर्वक्षराणि उच्चरति मध्यमधारया' पुरुषः तावान् काल ग्राक्षीं विनाडिका । षडेव वा प्राणाः ॥ प्राण उच्छ्वासः । यावता कालेन पुरुषः षडुच्छ्वासान् करोति तावान् विनाडिकाकालः । तेन श्रप्राक्षाँ दिवसः षष्टिर्नाडयः, षट्शताधिकं सहस्रत्रयं विनाडयः, खखषड्घनसंख्याः (21600) प्राणाः । भचक्रलिप्ताश्च तावत्य* एवेति छायाद्यानयने प्राणेष्वपि ज्यादिकं कर्म प्रवर्तते । उक्तं च मूलम्- 1. E. षष्टिश्च व्याख्या-1. E. विभागमार्ययाऽऽह 2. E. स्पष्टार्थमिदं सूत्रम् । 3. A. om. H ° 4 - E मध्यमय धरया 5, E. तवंत SO