पृष्ठम्:आर्यभटीयम्.djvu/133

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकः २] क्षेत्रविभागः ።ꬃ

'प्राणेनैति कलां भम्' (गीतिका० 6) इति। अन्येषां मानानां विनाडिका स्वषष्टिभागपरिच्छिन्नैव भवति ।

                                   [ क्षेत्रविभागः ]

उक्तं कालविभाग^1मुपसंहृत्यामुमेव प्रकारमार्योत्तरार्धेन क्षेत्रेऽप्यतिदिशति^2-

                    एवं कालविभाग:
                       क्षेत्रविभागस्तथा भगणात् ॥ २ ॥

यथा कालविभागो वर्षात् प्रभृत्युक्तः, एवं क्षेत्रविभागो भगणात् प्रभृति प्रतिपत्तव्य:^3 । तद्यथा-एको'^4 भगणो द्वादश राशयः । एको राशिस्त्रिशद् भागाः, एको भागः षष्टिः कलाः । एतच्च दशगीतिकायामुक्तं ‘शशिराशय:' (गीतिका० 6) इत्यत्र्त । एका कला षष्टिविकला:, एका विकला षष्टिस्तत्परा इत्यवयवान्तरमभिधानान्तरात् सिद्धम् । उक्तं च-

         भगणो राशिर्भागः कला च विकला च तत्परा चैव | 
         क्षेत्रस्यैताः संज्ञाः कालविभागेन तुल्याः स्युः ||
इति द्वितीयं सूत्रम् || २ ||
                                    [ ग्रहयोगः ] 

द्वियोगपरिज्ञानायार्यापूर्वार्धेनाह-

         भगणा द्वयोर्द्वयोर्ये
             विशेषशेषा युगे द्वियोगास्ते ।

द्वयोर्द्वयोर्ग्रहयोः अधिकसंख्येभ्यो गीतिकोक्तभगणेभ्योऽल्पसंख्यान् भगणान् विशोध्य ये यावन्तः शेषभगणाः ते तावन्तो युगे द्वियोगाः द्वयो^5र्द्वयोर्ग्रहयो-


व्याख्या-1. D. विभागप्रकार

     2. E. क्षेत्रेऽप्युक्तरार्धेनातिदिशति 
     3. B. प्रभृति वक्तव्यः; C. प्रभृति प्रतिवक्तव्यः 
     4. C. एकैको 
     5. A.B.C. Hapl. om. of द्वयोः ; E. तयोः

आयं० - ११