पृष्ठम्:आर्यभटीयम्.djvu/134

एतत् पृष्ठम् परिष्कृतम् अस्ति

ER कालक्रियापादे Tro र्युगसम्बन्धिनो योगा भवन्ति। इष्टग्रहयोर्भगणविशेष एव तयोर्युगे योगसंख्य इत्यर्थ.* । तद्यथा*-गुर्वङ्गारकयोः ‘गगनजलदरसयमाग्नि‘रन्ध्रशशाङ्का' योगाः (19,32,600). एवमन्येषामपि द्रष्टव्यम् । श्रत्रेदं युगद्वियोगैरिष्टद्वियोगानयने त्रराशिकम् यदि युगभूदिनैरिष्टग्रहयोर्युगद्वियोगाः लभ्यन्ते', युग'याताहर्गणेन कियन्त इति लब्धा भगणगतद्वियोगाः । शेषे द्वादशादिगुणिते' राश्यादिलब्धिः । तद्राश्यादिकं

शीघ्रग्रहाद् ज्ञाताद् विशोधयेत् । शेषो मन्दग्रहः । मन्दग्रहे ज्ञाते* युञ्ज्यात् , शीघ्रग्रहो भवतीति ।

[ व्यतीपातः ] व्यतीपातपरिज्ञानायापरार्धमाह'- रविशशिनक्षत्रगणाः सम्मिश्राश्च व्यतीपाताः ॥ ३ ॥ युगे" व्यतीपाताश्च रविशशिनो भगणाः सम्मिश्राः संयुक्ता' भवन्ति । चन्द्रादित्यभगणयोगो** द्विगुणितो युगव्यतीपातप्रमाणमित्यर्थः । तथा च ब्रह्मगुप्तः-- व्यतीपातवैधृतान्यर्कचन्द्रभगणा युता द्विसंगुणिताः । (ब्राह्मस्फुटसिद्धान्तः, 13. मध्यगति०,41) इति । एवं च स्फुटचन्द्रार्कयोग एकस्मिन् भगणे सति व्यतीपातद्वयाभिधानात् तयोयोंगे चक्रार्ध चक्रे च* व्यतीपात इत्युक्तं भवति । एष च स्थूल: कालः'। सूक्ष्मकालस्तु दानवराजेनोक्त:'— व्याख्या- 1 E. विशेषेण शेष एव 2. B. om. this sentence. 3. E. om. TādēTUTT 4. B. Hufsat 5. A. D. add if 6. E. afia for gT 7. B. C. शेषैः द्वादशगुणितैः 8. E. om. Trà 9. B. ज्ञानार्थमार्यापश्चार्घोनाह ; D. ज्ञानायापराघेनाह ; E. ज्ञानायार्या पश्चाघनाह 10. B. om. gt 11. E. संयुक्ताश्च 12. E. चन्द्रादित्ययुगभगणयोगो 13. B. चक्रऽन्ते च 14. B. E. reqser f'ter: 15, E. om. TĦą RTFfîTfi: