पृष्ठम्:आर्यभटीयम्.djvu/135

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ३ ॥ व्यतीपात: एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा । तद्युतौ' मण्डलं* क्रान्त्यो°स्तुल्यत्वे वैधृताभिधः ॥ विपरीतायनगतौं चन्द्राको क्रान्तिलिप्तिकाः । समास्तदा व्यतीपातो भगणार्ध तयोर्युति:* ॥ (सूर्यसिद्धान्तः, 11.1-2) इति । तदानयनमप्युक्तम् भास्करेन्द्वोर्भचक्रान्तचक्राधविधिसंस्थयोः । दृक्तुल्यसाधितांशादियुक्तयोः" स्वावपक्रमौ ॥ अथौजपदगस्येन्दोः क्रान्तिविक्षेपसंस्कृता ॥ यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा ॥ ऊना चेत् स्यात् ततो भावी वामं युग्मपदस्य तु । क्रान्तिज्ये त्रिज्ययाभ्यस्ते परक्रान्तिज्ययोद्धृते ॥ तःच्चापान्तरमधत्व योज्यं भाविनि शीतगौ । शोध्यं चन्द्राद् गते पाते तत्सूर्यंगतिताडितम् ॥ चन्द्रभुक्त्या हृतं भानोलिप्तादि शशिवत् फलम् ॥ तद्वच्छशाडूपातस्य फलं देयं विपर्ययातू ॥ कर्मेतदसकृत् कुर्यात् यावत्क्रान्ती समे तयोः ॥ त्रान्त्योः समत्वे पातोऽथ* प्रक्षिप्तांशोनिते° विधौ ॥ हीनेऽर्धरात्रिकाद्यातो भावी स्यादधिके विधौ । स्थिरीकृत्वार्धरात्रेन्द्वोर्द्वयोविवरलिप्तिकाः ॥ व्याख्या-1. B. C. E. तद्युत 2. B. HUSETT- ; Ptd. edins. HTTS 3. A. B. C. đirằ: 4. Ptd. edns. Frutë erdhja 5. C. The page is left blank after this and the Kalakriyapada is commenced again in the next folio with fresh numbering. 6. A. B. C. पातेऽथ 7. E. Eftirffrì