पृष्ठम्:आर्यभटीयम्.djvu/157

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २१ ] नीचोच्चवृत्ते मध्यग्रह: cy एतदुक्तं भवति---कक्ष्यामण्डले यत्र यत्र मध्यमो ग्रहः तत्र तत्र मन्दनीचोच्चवृत्तमध्यं तिष्ठति । यत्र' मन्दस्फुटसिद्धो ग्रहः तत्र शीघ्रोच्चमन्दोच्च'वृत्तमध्यं तिष्ठतीति । श्रत एव मन्दादनुलोमगानि वृत्तानि शीघ्रोच्चप्रतिलोमगानि इति सिद्धं भवति । इत्येकविशं सूत्रम् ।। २१ ।। [ मन्दशीघ्रयोः ऋणधनविधिः ] मन्दशीघ्रकम'ित्पन्नग्रहफलस्य तत्केन्द्र'पदवशात् 'धनर्णविधानम् ग्राद्यार्धनाह"- क्षयधनधनक्षयाः स्यु र्मन्दोच्चाद् व्यत्ययेन शीघ्रोच्चान् । मन्दोच्चं ग्रहमध्यात् त्यक्त्वा तत्केन्द्रनिष्पन्ना ग्रहफलचापकलाः केन्द्रपदक्रमेण क्षयधनधनक्षया भवन्ति । एतदुक्तम्'-प्रथमपदोत्पन्नग्रहफलचापकलाः ग्रहस्य मध्यमाच्छोध्याः । द्वितीयपदोत्पन्नाः प्रथमपदान्तर'संस्कृते ग्रहमध्यमे योज्याः । तृतीयपदोत्पन्नाः केवलमध्यमे योज्याः । चतुर्थपदोत्पन्नाः तृतीयपदान्त'संस्कृताद् ग्रहमध्यमाच्छोध्या' इति । व्यत्ययेन शीघ्रोच्चात् मन्दफलसंस्कृतं ग्रहं शीघ्रोच्चात् त्यक्त्वा तत्केन्द्रोत्पन्नग्रहफलचापकलाः केन्द्रपदवशात् मन्दोच्चफलोक्त'प्रकारफलवैपरीत्येन संस्कुर्यात्' । प्रथमचतुर्थपादोत्पन्नाः मन्दफलसंस्कृते ग्रहे योज्या:। द्वितीयतृतीयोत्पन्ना:"* शोध्या' इत्यर्थः । ग्राचार्येण ग्रहफलचापकलानां न्यायतः सिद्ध'मङ्गीकृत्य धनर्णमात्राभिधानात् "तत्सिद्धिप्रकारः प्रदर्श्यते--मन्दकर्मणि तावत् पूर्वानीताद् ग्रहमध्याद् 하gIT-1. IE. II 리 E. शीघ्रोच्चनीचोचच 3. A. C. om. कर्म 4. C. केन्द्रस्य 5. A. C. Hapl. om. of quf...to qĦ &qt, five lines below. 6. E. धनर्णविधिमार्यापूर्वाधेनाह 7. D. E. add Hafi 8. D. E. add the 9, D. E. add the 10. E. संस्कृते ग्रहमध्यमे शोध्या 11. A. om. फलोक्त 12. D. संस्कायः 13. E. तृतीययोः 14. A titvaT (wr.) 15. D. fif 16. B, C. com. リrrieーAY