पृष्ठम्:आर्यभटीयम्.djvu/170

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ गोलपादः -Masao [ गोलबन्धः ] श्रथ गोलपादो व्याख्यायते । श्रतैवं प्रक्रिया-ब्रह्माण्डकपालान्तरस्थाकाशमध्ये निराश्रया समघनवृत्ता पञ्चभूतात्मिका* भूस्तिष्ठति° । तस्या एकमर्ध मृत्प्राचुर्यान्मृण्मयम्, श्रपरमर्ध जलप्राचुर्याज्जलमयम् इत्युच्यते । तत्र मृदंशमध्ये मेरुः, देवनिवासः, स्वर्गश्च । जलांशमध्ये बडवामुखम्, श्रसुरनिवासो, नरकश्च । स्थलजलसन्धौ चत्वारि नगराणि, लङ्का-यवकोटि-सिद्धपुररोमकाख्यानि,' मेरोर्बडवामुखाच्च भूपरिधिचतुर्भागे' स्थितानि । 'लङ्कातः पूर्वतो भूपरिधिचतुर्भागे यवकोटिः, श्रपरतो रोमकः । लङ्कात एव सर्वतो भूपरिध्यधै सिद्धपुरम् । लङ्कामेर्वन्तरालरेखा समरेखा' नाम । तस्यां लङ्कात उत्तरेण भूपरिधिपञ्चदशांशे' नगरी उज्जयिनी। एवंविधा च भूर्धारणात्मिका" । तेन यत्र तत्र स्थितानां सर्वेषां भूरधः' । तद्यथा-मेरुस्था देवा: बडवामुखस्थान् अध:शिरसो मन्यन्ते, बडवामुखस्था श्रपि देवांस्तथाभूतान् । उभयेऽपि'* नगरचतुष्टयप्रापि-भूपरिधिवासिनस्तिर्यक्छिरसः शयानान्' । तत्रस्था श्रपि देवानसुरांस्तथाभूतान् । तथा लङ्कासिद्धपुरस्थाः परस्परमधःशिरसः, इतरपुरद्वयमेरुबडवामुखस्थान् शयानान् । यवकोटिरोमकस्था श्रप्यन्योन्यमवाक्छिरसः मेरुलङ्कासिद्धपुरबडवामुखस्थान् शयानान् । U-TsZT-1. E. Om. E2 2. D. *TTviseT 3. D. भूमिस्तिष्ठति 4. D. Hafreifrif 5. E. मुखात् परस्परं च 6. B. Hapl. om. : चतुर्भागे | स्थितानि to चतुर्भागे] यवकोटि 7. E. तथा लङ्कातः 8. B. Hapl. om. of IFFITT 9. D. E. दशांशेन 10. C. भूर्भरणात्मिका 11. A. भूर्धारका ; E. भूरेवाधः 12. B. C. SrTaf 13. B. C. add Horð ११८