पृष्ठम्:आर्यभटीयम्.djvu/173

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः १ ] गोलबन्धः ዓቕ ዊ सर्वत्र क्षेत्रपरिच्छेदः । घटिकामण्डलवशात् कालपरिच्छेदः । ततो मेषादेः प्रभृति यावद्राश्यादिके' चन्द्राऽद्यपातो वर्तते, यावति च द्वितीयः, तयोरपरं वृत्तं पूर्वापरं निधाय* तत्प्रथमसम्पातादुत्तरतो द्वितीयसम्पाताच्च दक्षिणतो नवतितमे भागे गते श्रप्रपमण्डलस्य श्रप्रस्य चान्तरे श्रप्रर्धपञ्चमभागा यथा भवन्ति तथा बध्नीयात्। तद् विक्षेपमण्डल विमण्डलमिति चोच्यते । ततो मेषान्त‘सिहान्तप्रापि पूर्वापरं वृत्तं विषुवत उत्तरेण दक्षिणोत्तरवृत्ते द्वादशभागे बध्नीयात् ' एवं वृषकक्र्यन्तप्रापि तस्मादुत्तरेण नवमभागे, ततो” मिथुनान्तप्रापि' तस्मादुत्तरेण त्रिषु च भागेषु बध्नीयात् । एवं दक्षिणतो विषुवतो' वृत्तत्रयं तुलाकुम्भान्तप्रापि, अलिमृगान्तप्रापि, धनुर्मुगसन्धिप्रापि तावद्भागेषु क्रमेण बध्नीयात्। तानि स्वाहोरात्रमण्डलानि राश्यन्तगानि” । मेषतुलाद्योविषुवद्वृत्तमेव स्वाहोरात्रवृत्तम् । एवं सप्त स्वाहोरात्रवत्तानि । ततोऽयःशलाकाम् ऋज्वीं कृत्वा गोलदक्षिणोत्तरस्वस्तिकयोर्वेधौ कृत्वा प्रवेशयेत् । तन्मध्ये च समवृत्ता भूः मृदा ग्रन्येन वा' दर्शयितव्या" । एवमियं* चन्द्रकक्ष्या । बुधादीनामपि कक्ष्या यथा बहिर्बहिर्भवति तथा च बध्नीयात् । इयांस्तत्र विशेषः । स्वस्वपातयोः स्वस्वपठितविक्षेपव्यवहितानि विमण्डलानि बध्नीयात। रविकक्ष्यायां विमण्डल नास्ति, पातविक्षेपोपदेशाभावात्। श्रप्रथवा एकस्यामेव कक्ष्यायां सर्वे विशेषाः प्रदर्शयितव्याः'* यस्माद् भिन्नकक्ष्यास्था** श्रप्रपि ग्रहाः एकस्था इवोपलक्ष्यन्ते । 'तस्मादेकैव कार्या । ततो महाप्रमाणं वृत्तचतुष्टयं कृत्वा एकं पूर्वापरं ग्रधऊध्र्वम्, द्वितीयं दक्षिणोत्तरम्, तृतीयं परिकरवद् बध्वा, चतुर्थं पूर्वापर"स्वस्तिकलग्नं दक्षिणस्वस्तिकादधः उत्तरस्वस्तिकाच्चोपरि स्वदेशाक्षभागतुल्येऽन्तरे बध्नीयात् । एतदुन्मण्डलं नाम व्याख्या-1. D. E. राश्यात्मके 2. A. B. विधाय 3. E. om. the sentence. 4. E. doird 5. A. B. C. om. Trì 6. E.मिथुनककिसन्धिप्रापि 7. E. adds 3rf, 8. E. तावत्सु भागेषु 9. A. B. C. om. RITAFTintf 10. B. C.D. मृदाद्येन वा 11. A. : get ar aTrfrier (wr.) 12. A. qafiri 13. B. along hapl. om. : *ræsfader i sæEH त् to प्रदश्र्या l अपवृत्ते, p. 148, line 1. 14. A. C. om. TUTT 15. D. यस्मादेकैव 16. E. पूर्वापरं च ante-q4