पृष्ठम्:आर्यभटीयम्.djvu/174

एतत् पृष्ठम् परिष्कृतम् अस्ति

ፃኛ ኛ गोलपादे [ गोल० निरक्षक्षितिजम् । तृतीयं साक्ष'क्षितिजम् । ततस्तृतीयवृत्त°-दक्षिणोत्तरमण्डलयाम्यसौम्यस्वस्तिकयोर्वेधौ कृत्वा। भूगोलं सकक्ष्यं प्रवेश्य बहिरयःशलाकाग्रयोध्रुवी प्रदश्यौं । एतन्निरक्षदेशगोलसंस्थानम् । साक्षे तु उन्मण्डल-दक्षिणोत्तरमण्डल*-दक्षिणोत्तरयाम्योत्तरस्वस्तिकयोर्वोधौ कृत्वा तयोरयःशलाकाग्रे ध्रुवसहिते प्रवेशयेत् ।। [ अपमण्डलम् | एतावान्" गोलबन्धो व्याख्यातः । शेषं पुनस्तदुपपत्ति‘वेलायामेव वक्ष्यामः । तव* पारमार्थिके गोलेऽपमण्डलसंस्थानप्रदर्शनार्थमार्ययाऽऽह--- मेषादेः कन्यान्तं सममुदगपमण्डलार्धमपथातम् । तौल्यादेर्मीनान्तं शेषार्ध दक्षिणेनैव ॥ १ ॥ 'बुधाह्मयजाकौंदयाच्च लांडूयाम्' (गीतिका० 4) इति लङ्कामधिकृत्य सर्वशास्त्रप्रवृत्तेः तत्समपूर्वापराधऊर्ध्वायतविषुवन्मण्डलस्य" संस्थानम्, “तद्दक्षिणोत्तरवृत्तसंस्थानम् , तत्पाश्र्वस्थितवृत्तसंस्थानं चार्जवेना'वस्थितत्वात् सिद्धं कृत्वाऽवशिष्टसंस्थानमपमण्डलं सूत्रकारः प्रतिपादयतीत्यवगन्तव्यम् । श्रप्रत्र श्रपयानप्रमाणं ‘भापक्रमो ग्रहांशाः' (गीतिका० 8) इत्यत्र प्रदशितम् । शेषस्त्वार्याधीं गोलसंस्थान-तद्वन्ध“दर्शना’भ्यामवगतः । एतच्च मृगकक्यादिस्थेऽयनेऽपमण्डलसंस्थानम् । यदा तु ततः पूर्वतः परतो वाऽयनं तदा तदनुगुणं व्याख्या-- 1. A. साक्षात् 2. E. तत् for ततस्तृतीयवृत्त 3. A. C. Hapl. om. : कृत्वा (भूगोलं to कृत्वा , two lines below. 4. D. àRT 5. E. चतुर्थ-तृतीय for उन्मण्डल-दक्षिणोत्तरमण्डल 6. D. एतावद्; 7. E. तदुत्पत्ति 8. A. B. C. ततः: 9. E.om,स्य. 10. A. C. om. तद 11. A. C. D. च जवेन 12. A. गोलसम्बन्ध ; C. गोलसंस्थानसम्बन्ध 13. E. प्रदर्शन