पृष्ठम्:आर्यभटीयम्.djvu/205

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २७ ] स्वदेशराश्युदयः ቁኳgጃ दध स्थितं क्षितिजम्' । क्षितिज*मेषान्तसम्पर्कश्च मेषोदयान्तः । निरक्षदेशे तु मेषान्तोन्मण्डलसंसर्गः । मेषान्तश्च विषुवन्मण्डलादुत्तरतो द्वादशभागापक्रान्तः । तत्क्षतिजसंश्लेषो मेषचरदलप्राणेनोन्मण्डलादधःस्थित इति श्रधःस्थितेन क्षितिजेन मेषोदयानुकूल्यं क्रियते । तेन निरक्षसाक्षयोः सहोदेतुं प्रारब्धो मेषादिः । तदन्तस्तु क्षितिजस्योन्मण्डलादधःस्थितत्वात् चरदलहीनेन निरक्षप्रमाणेन साक्ष* उदेति । एवं वृषान्तो मेषादप्युत्तरतोऽवतिष्ठते । क्षितिजोन्मण्डलान्तरालं च पूर्वस्मात् वृद्धमू । तत्रत्येन चरदलेन मेषाद्य राशिद्वयं स्वदेशे पूर्वमुदेति, पश्चान्निरक्षे । तत्र प्रथमाद् यावदधिकमन्तरम्,* तेन कालेनोनो निरक्षवृषोदय काल;"| स्वदेशवृषोदयकालो भवति । मिथुनान्तस्तु वृषान्तादप्युक्तरतः स्थितः । तद्वृत्तद्वयान्तरं च पूर्वस्माद् वृद्धम् । तद्वृद्धांशेनोनो° निरक्षमिथुनोदयकालः स्वदेशमिथुनोदयकालो भवति । एवं प्रथमः पादः क्रमात्? चरदलहीनेन दिवसपादेनोदेति । श्रप्रथ द्वितीयः । तत्र मिथुनान्ताद् दक्षिणेनापक्रान्तः कर्कटान्तः,* क्षितिजमण्डलं च यथा दक्षिणमुन्नतं भवति तेन दक्षिणतः स्थितस्य° कर्कटस्योदयः" प्रतिबध्यते । प्रतिवन्धो' मिथुनोदयानुकूल्यतुल्य इति मिथुनहानितुल्यक्षेपो निरक्षकक्र्युदयो भवति । एवं तस्मादपि सिंहान्तो दक्षिणत:' क्षितिजवृत्तं च । तथैव दक्षिणोन्नतमिति । तेन सिहोदयः प्रतिबध्यते । प्रतिबन्धश्च वृषानुकूल्यतुल्यः । ग्रतो वृषहानिः सिहक्षेपः । कन्यान्तश्च तस्मादपि दक्षिणतः । क्षितिजोन्नतिश्च तथा । मेषानुकूल्यतुल्यः कन्याप्रति ETTETT-1. A. C. Hapl. om. of fitfirqaq 2. A. B. C. Hapl. om. fit ft III ***to fètfèTIT) risèrtì, two lines below. E. सक्षमेष 4. A. B. C. प्रथमाद्यधिकमन्तरं ; D. प्रथमाद्यावदधिकविक्रमन्तरं E. प्रथमाधद् िetc. 5. Mss, do not contain affet: which is needed. 6. A. वृद्धांशोनो 7. A. B. C. om. ERT 8. A. B. C. Hapl. om. of ąjąềerFT: ; D. E. ą5ąfiarąFFT: 9. A. B. C. दक्षिणरुिथतस्य 10. D. E. कर्कटकस्योदय: 11. E. प्रतिबद्धश्च 12, A. B. दक्षिण tie-ro