पृष्ठम्:आर्यभटीयम्.djvu/207

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २८ ] इष्टकालशङ्कुः ዓሂሂ इष्टकालज्यां द्युवृत्तगतां स्वक्षितिजात् प्रवृत्तां ज्यां स्वावलम्बज्याहतां कृत्वा तत एवंभूते राशौ त्रिज्याविभक्ते सति लब्धमत्तो दिनस्य गतशेषयोः शङ्कुर्भवति । गतशेषयोरित्यनेन माध्याह्नात्पूर्वं गतघटिकाभिः, उत्तरं गन्तव्यघटिकाभिश्च स्वशङ्कुः साध्यत इति दर्शयति । ग्रत्र वासना स्वदेशगोले प्रदश्य । विषुवत उत्तरेण* दक्षिणेन वा यत्र द्युवुत्तक्षितिजवृत्तसम्पर्कः तत्र सूत्रं बध्वा द्वितीयमग्रं विषुवतो द्वितीयस्यां दिशि तावति तत्रैव बध्नीयात् । एवमपरदिग्भागेऽपि । तदग्रयोः पूर्वापरायतं सूत्रं ग्रहस्थितगोले बध्नीयात् । तत् साक्षोदयास्तसूत्रम् । तथा* उन्मण्डलद्युवृत्तसम्पातप्रापि च यत्सूत्रं पूर्वापरायतं बध्नीयात् । तन्निरक्षदेशोदयास्तसूत्रम्* । तत उन्मण्डलाद् यावत्युच्छ्रुितो ग्रहः तत्र द्युवृत्ते सूत्रस्यैकमग्रं बध्वा ग्रधस्तावत्येवान्तरे द्युवृत्ते एव' बध्नीयातू । तत्' साक्षनिरक्षोदयास्तसूत्रद्वयम् श्रवश्यं स्पृशति । तत्र* स्वोदयास्तसूत्रसम्पकदुपरितनं सूत्रखण्डं द्युवृत्तेष्टज्या सूत्रोक्ता’ । ततो ग्रहस्पृगुक्तवद् दृङ्मण्डलं बध्नीयात् । तत्-क्षितिजवृत्तसम्पातद्वयप्रापि भूमध्यावभेदि सूत्रं भूमध्याद् ग्रहस्पृक्सूत्रं च वध्नीयात् । तस्माच्च गुरुद्रव्यबद्ध सूत्रं, दृङ्मण्डलबद्धसूत्रस्पृगवलम्बयेत् । स शङ्कुः कोटिः । भूमध्याद् ग्रहस्पृक्सूत्रं* व्यासार्धं कर्णः । श्रवलम्बकभूमध्यान्तरं दृङ्मण्डलव्यासार्धखण्डं भुजा । एवमिदमर्धायतचतुरश्रं क्षेत्रम्° ।। अथ स्वोदयास्तसूत्रादुपरि ग्रहावच्छिन्नस्वाहोरात्रेष्टज्या कर्णः । शङ्कुः कोटिः । शङ्कुमूलादुत्तरतः उदयास्तसूत्रशङ्कुमूलान्तरालं शङ्क्वग्रतुल्यं भुजा । इदमप्यर्धायतचतुरश्रं क्षेत्रम् । तत्र प्रथमं स्वाहोरात्रेष्टज्या श्रानीयते । गतगन्तव्यप्राणा विषुवन्मण्डल गताः, क्षितिजाच्च प्रवृत्ताः । ज्याश्च उन्मण्डलात् प्रवृत्ताः । ततः उन्मण्डलत्वादित्वाय सौम्यगोले चरदलमिष्टप्राणेभ्यः शोध्यते, दक्षिणे योज्यते । tsara T-1. E. adds at 2. A. B. om. TIV's 3. D. E. निरक्षोदयसूत्रम् 4. B. एवं 5. D. Hapl. om. rfrt [ K T3 • • • to afrt ] fèrfèi Y13tf, two lines below. 6. A. B. C., a 7. A. B. C. tithyat 8. E• Hapi. om. सूत्रं [*** to उदयारुतसूत्र] शङ्कुमूलान्तरालं, four lines below. 9. B. Hapl. om. 4 : ["*" to i*1 I TITT, three lines below.