पृष्ठम्:आर्यभटीयम्.djvu/226

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VSY गौलयाचे [ चोल० सूर्यग्रहणे चन्द्रस्फुटनतेर्वगितं शोध्यम् ॥ शिष्टस्य च मूलं तच्चन्द्रार्कदिनभोगात् स्थित्यर्धं ज्ञेयम् ॥ एतदुक्तम्'-लब्धं मूलं षष्टया हत्वा चन्द्रार्कदिनगत्यन्तरेण विभज्य लब्धो घटिकादिकः कालो ग्रहणस्थितिकाल*स्यार्धं भवतीति । श्रप्रत्रेदं खैराशिकम्–यदि दिनगत्यन्तरक्षेत्रेण षष्टिघटिका लभ्यन्ते, मूलसमक्षेत्रेण कियत्य इति । अत्र चन्द्रग्रहणे सम्पकाधेन वृत्तमालिख्य पूर्वापररेखा कृत्वा तत्केन्द्र एव केन्द्र कृत्वा ततश्छायाबिम्बमालिखेत । यदा शशिनो विक्षेपो नास्ति सम्पकार्धवृत्तापरपरिधिपूर्वापरसूत्रसम्पातेऽवश्यं* चन्द्रकेन्द्रं भवति, यतस्तदा। परिध्योः स्पर्श एव, नावगाहः, न चापि विश्लेषः । तस्मात् तदा' तयोर्बिम्बकेन्द्रान्तरालस्थाप'मण्डलखण्डमपि सम्पकर्धतुल्यं भवति । तच्च गत्य'न्तरेणेवापचीयते, वर्धते चेत्युपपन्नं त्रैराशिकम्-यदा समस्तग्रहणकाले' विक्षेपः सम्भवति, तदा वृत्तकेन्द्राद् विक्षेपदिशि शशिकेन्द्रं भवति । तत्र विक्षेपाग्रात् सम्पर्कवृत्तपरिधिप्रापि पश्चिमाभिमुखं यत्सूत्र प्रसार्यते, तस्य सम्पर्कार्धपरिधेश्च° यत्र सम्पर्कः तत्रावश्यं स्पर्शकाले बिम्बकेन्द्रं भवति" । केन्द्रद्वयप्रापिसूत्रं सम्पर्कार्धवृत्तव्यासार्धं कर्णः । विक्षेपो भुजा । तद्वर्गविश्लेषमूलं कोटिः । गत्यन्तरक्षेत्रं यत्* तत्सूत्रानुसारेण पूर्वापरमन्तरं क्षीयते । श्रप्रतस्तया कोटच्या तत्र · त्रैराशिको “युक्तम् । एवमानीतं स्थित्यर्ध” स्थूलम्, यतो मध्यग्रहणविक्षेपेणानीतं स्पाशिकविक्षेपेण तु युक्तम् । ततः स्थित्यर्धकाल'भुक्ति समचन्द्राद्विशोध्य तस्माद् विक्षेपमानीय तस्मात् स्थित्यर्ध साध्यम् । प्रथमविक्षेपस्थौल्यात् द्वितीयविक्षेपोऽपि स्थूल:। तदानीत स्थूलम् । तत्स्थित्यर्धभुति समचन्द्राद् eatreat-1. D. adds Hafe 2. A. B. C. om... frefikaFT&M 3. A. om. qfë 4. B. Rat (wr.) for starvi 5. B. om. TIET 6. A. C. om. 3Tq 7. B. etc. Rara Teq (wr.) 8. D. समग्रकाले 9. D. Om, * 10. D. om. Haft 11. D. are: 12. E. Defective. om. [[TFT to TEHTII] fF4F4Ť TITEqt , two lines below. 13. A. B. C. D. Hapl. om. fFIFAqắ ["*" fÈYFf] TàET:, three lines below. However, the hapl. om. in D. is from fierced to feetitiful test, one line below, 14. E. om. EfTTT