पृष्ठम्:आर्यभटीयम्.djvu/234

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ गोल | गौल ग्रस्तांश उपलम्यते, तेनार्कबिम्बाष्टमभागमात्रे परमग्रासे सति ग्रासाभाव एवादेष्टव्यः । इति सप्तचत्वारिंशत् सूत्रम् ।। ४७ ।। [ ग्रहवीनां दृक्संवादः ] एवं स्वशास्त्रप्रतिपादितग्रहगत्यादेः दृक्संवादस्पष्टतामाह , क्षितिरवियोगाद् दिनकृद् रवीन्दुयोगात् प्रसाधितश्चेन्दुः। शशिताराग्रहयोगात् तथैव ताराग्रहाः सर्वे ॥ ४८ ॥ मा रवेश्च संयोगाद् विनकृत् प्रसाधितः प्रत्यक्षसंवादेनैवमेवेति निर्णातः। एवं निर्णीतस्य रवेरिन्दोश्च योगा' दृग्गणितसाम्येन दृष्टादिन्दुश्च निर्णातः। एवं शशिनः ताराग्रहाणां कुजादिपञ्चानां योगा तथैव दृष्टात् सर्वे भौमादयो निर्णीतः । अतोऽस्मत्सिद्धान्तोक्तगणितात् सिद्धाः सर्वे ग्रहा दृक्समा इत्यर्थः । अयमर्थ: स्पष्टमभिधीयते । अनावृतधरातले व्यासर्धाङ्गुलप्रमाण विस्तारं 'दगच्छितं समवत्तं पीठं पूर्वापरदक्षिणोत्तररेखान्वितं खखषड्घन (21600) विभक्तपरिधिं कारयेत् । तत्र सवितुरुदयकालेऽस्तकाले च पीठापर- पूर्वदिशोः स्थित्वा तत्पीठपरिधौ अधदितं विवस्वन्तं शकुछन्नं दृष्ट्वा पीठ परिधौ चिह्नं कुर्यात । शङ्कुच्छाया च तद्वयतिरिक्तदिक्परिधौ यत्र स्पृशति व्याख्या-1. D. दृक्संवादात् स्पष्टतामानीयाह; E. दृक्संवादशानोपायमार्ययाह । 2. A. B. C. साम्यात for योगात 3. E. adds निर्णीतस्य 4. D. भौमादिपञ्चानां ग्रहाणां; E. भौमादीनां 5. E. संयोगात् 6. A. गणितविधानात् सिद्धः 7. E. om. [ दृगुच्छूितं to दक्षि] णोत्तरsame line. 8. A. B. C. omसमवत्तं 9. E. विपरीत