[ ज्योतिइशास्त्रमहिमा ]
'स्वाध्यायोऽध्येतव्य:' ( तै० उ० २.१५.७ ), 'स्वाध्यायमधीयते' ( मा० शतपथ-ब्राह्मणम्, ११.५.६.८ ) इत्यर्थज्ञानपर्यन्ताध्ययनविधानेन अर्थज्ञानोपायतया अर्थाभिहितस्य[१] अङ्गाध्ययनस्य 'तस्माद् ब्राह्मणेन निष्कारणं[२] षडङ्गो वेदोऽध्येतव्यः'[३] ( महाभाष्यम् पस्पशाह्निकम् ) इति निष्कृष्य विधानात्वे,
वेदाङ्गानि च सर्वाणि कृष्णपक्षे तु[४] सम्पठेत्।
इत्यङ्गाध्ययनस्य कालक्तृप्तिविधानात्,[५]
इत्यङ्गविशेषक्लूप्तिस्मरणेन तत्तदङ्गाध्ययनाभावे वेदपुरुषस्य तत्तदङ्गवैकल्यं भवति । तस्मात् त्रैर्वाणकै[८]र्वेदवदध्येतव्यतया विहितेषु षट्स्वप्यङ्गषु—
मुखमखं शरीरस्य सर्वे वा मखमच्यते। तत्रापि नासिका श्रेष्ठा श्रेष्ठे तत्रापि चक्षयी॥
इति न्यायेन वेदपुरुषस्य चक्षुष्ट्वेन प्रधानाङ्गमवश्यमध्येतव्यमिति संस्मृत्यादौ[९] भगवता ब्रह्मणा बहुविस्तरं ज्योतिश्शास्त्रं कृतम्। ब्रह्मणः सकाशादधीततच्छास्त्रो वृद्धगर्गस्तत् संक्षिप्य अन्यच्चकार। तस्मादपि लब्धतद्विद्याः [१०]पराशरादयो मुनयोऽप्यन्यानि ज्योतिश्शास्त्राणि चक्रु:। तथा च वृद्धगर्गः—
स्वयं स्वयम्भुवा दष्ट चक्षुर्भूतं द्विजन्मनाम्। |
व्याख्या–
- ↑ C. E. अर्थविहितस्य
- ↑ E. निष्कारणः
- ↑ E. वेदोऽध्येयः
- ↑ A. C. पक्षेषु; E. gap for तु
- ↑ E. कालविशेषस्मरणात्
- ↑ E. कल्पोऽथ
- ↑ E. तस्य for प्रोक्तं
- ↑ E. तत्तदङ्गवैकल्यदोषापत्तेश्च उपनीतस्त्रैवणिकैः
- ↑ E. मध्येतव्यं ज्योतिषामयनम्। तत्र नानाशाखासु विप्रकीर्णस्य ज्योतिषविषयस्य वेदभागस्यार्थान् संस्मृत्यादौ
- ↑ B. C. पराशरादिमुनयो
- ↑ B. C. विनिस्मृतम्