पृष्ठम्:आर्यभटीयम्.djvu/55

एतत् पृष्ठम् परिष्कृतम् अस्ति
ज्योतिश्शास्त्रमहिमा

मया स्वयम्भुवः प्राप्तं क्रियाकालप्रसाधकम् ।
वेदानामुत्तमं शास्त्रं त्रैलोक्यहितकारकम् ॥

मत्तश्चान्यान् ऋषीन् प्राप्तं पारम्पर्येण पुष्कलम् ।
तैस्तथा ऋषिभिर्भूयो ग्रन्थैः स्वैः स्वैरुदाहृतम् ॥

तथा च गर्ग:—

श्रूयतां स्वर्ग्यमायुष्यं धन्यं पुण्यं यशस्करम् ।
ज्ञानविज्ञानसम्पन्नं द्विजानां पावनं परम् ॥

कालज्ञानमिदं पुण्यमाद्यं हि ज्ञानमुत्तमम्[१]
सिसृक्षुणा पुरा वेदानेतद् दूष्टं[२] स्वयम्भुवा ॥

वेवाङ्गमाद्यं वेदानां क्रियाणां[३] च प्रसाधकम् ।
ज्योतिर्ज्ञानं द्विजेन्द्राणामतो वेधं विदुर्बधाः[४]

ज्योतिश्शास्त्रं तु[५] सर्वस्य लोकस्योक्तं[६] शुभाशुभम् ।
ज्योतिर्ज्ञानं च यो वेत्ति स वेत्ति परमां गतिम ॥

तद्भावभावनायुक्तं[७] तं देवा ब्राह्मणं विदुः ।
तस्मात् पूर्वमधीयीत ज्योतिर्ज्ञानं द्विजोत्तमः[८]

धर्मशास्त्रं ततः पश्चाद् यज्ञकर्मविधिक्रियाः[९]
तस्मात् पुण्यं समं वेदैर्यर्ज्ञचक्षुः सनातनम् ॥
स्वर्ग्यमध्येयमव्यग्रैर्ब्राह्मणैः संश्रितव्रतैः ॥

तथा च लगधाचार्यः[१०] — .

यथा शिखा मयूराणां नागानां मणयो यथा ।
तथा वेदाङ्गशास्त्राणां ज्योतिषं मूर्धनि स्थितम् ॥

व्याख्या-

  1. B. माद्यं विज्ञानमुत्तमम्
  2. C. सृष्टं
  3. E. क्रियायां
  4. E. बुध:
  5. E. ज्योतिश्चक्रात्तु
  6. E. तु लोकस्य सर्वस्योक्तं
  7. A. C. E. तद्भावभाविनं युक्तं
  8. B. द्विजोत्तमैः
  9. A. B. C. विधिः क्रियाः
  10. A.C. यवनाचर्यः