पृष्ठम्:आर्यभटीयम्.djvu/66

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४ गीतिकापादे [ गीतिका रामशिवयमाष्टतिथयो भुवः" (1,58,22,37,500). नन्वचलाया भूमेः कथं भगणोपदेशः ? उच्यते-भचक्रस्थानि प्रत्यङ्मृखानि नक्षत्नाणि भचक्रस्य प्रवहाक्षेपवशादपरां दिशं गच्छन्ति, स्वाधःस्थितां भूमिं स्वगत्या प्राङ्मुखं श्रमन्तीमिव पश्यन्ति । यथा परं पारं प्रति यान्तीं नावमधिरूढाः“ पुरुषा नौगमनवशात्‌ परं पारं प्रति यान्तस्तमेव परं पारं स्वप्रतिमुखं यान्तमिव पश्यन्ति, प्रनया द्र्ष्टघा भचक्रस्यैव परिवर्त" भूमावध्यस्य भगणोपदेशः कृतः । प्राक्‌ स्वगत्या प्राङ्मुखं गच्छतां ग्रहादीनां तद्गगमनकृताः परिवर्ता भगणा इत्युपदिश्यन्ते 1

ननु सर्वाणि ग्रहनक्षतराणि पूर्व" पूर्वस्यां दिश्युदयं कृत्वा त्रमेणाम्बर- मध्यमतीत्य पश्चीमस्यां दिश्यस्तं यान्तीति द्रुश्यन्ते । श्रतो नक्षत्राणामिव ग्रहाणामपि प्रत्यङ्मुखमेव गमनं, न तु प्राङ्मुखमिति । 'उच्यते-नक्षत्नाणि तावद्‌ भचक्रे पूर्वापर" स्थितानि, श्रश्विन्या: पूर्वतो" भरणी, तत्पुर्वतः कृत्तिका, तत्पूव्रतो रोहिणीत्यादि । एतानि भचकक्रे प्रतिवद्धानि” तद्श्रमणवशान्नित्यं पश्चिमाभिमुखं गच्छन्ति । भचक्रस्थानां ग्रहाणामपि नक्षत्राणामिव यदि चक्राधीना गतिरेव स्यात्‌ „ तर्ह्येकस्मिन्‌ काले श्रश्विन्यां दृष्टास्तत्परतो बहुतिथेऽपि" काले गते भरण्यादिभिस्सह नोपलभ्येरन्‌ । उपलभ्यन्ते च ग्रहा श्रश्विन्यादिभिः सह पूर्वस्मिन्‌ काले दुष्टाः” परस्मिन्‌ काले श्ररण्यादिभिः सह पुर्वपुर्वस्थितैः । तस्माच्चक्रगतिव्यतिरिक्तं स्वकीयं गमनं“ प्राङ्मुखमभस्तीति निश्चीयते । तेन प्राङ्मूखेन गमनेन य॒ एकश्चक्रपरिवर्त: स एको भगणः ।


व्याख्या--1. D. adds इति भूमेर्युगभगणा जाताः |

2. C. प्रवहक्षेपणवशात्‌

3. D. For भ्रपरां, D. reads: नित्यं परिचमां

4. D. E. नावमारूढाः

5. E. तया for श्रनया 6. D. परिवतितं ; E. परिवर्तनं 7. E. Hapl. om. of पूर्वं 8. E. om. तु

9. D. adds भ्रत्र 10. D. पूर्वापरं 11.D. परतो (wrong).

12. D. भचक्रबद्धानि ; E. भचक्रप्रतिबद्धानि

13. D. चक्राधीनैव गतिः स्यात्‌ ; E. om. एव in गतिरेव 14. B. C. om. भ्रषि 15. C. पूवं दृष्टाः

16. A. B. C. स्वकीयगमनं 17. D. Tr. प्राङ्मुखं गमनं