पृष्ठम्:आर्यभटीयम्.djvu/69

एतत् पृष्ठम् परिष्कृतम् अस्ति

17 श्लोकः ४ ]

चन्द्रोच्चभगणादिः

भगणाः चक्रगतिव्यतिरिक्ततया1 प्रत्यङ्मुखस्वगत्या2 निष्पन्ना इमे युगे परिवर्ताः बुफिनच 'अङ्गाश्वियमदस्राग्नियमलाः पातपर्ययाः3 (2,32,226)4 (लघुभास्करीयम्, 1.14). मीनान्तोपक्रमो मेषादिपर्यवसान एकः परिवर्तः ।

ननु सप्तैव ग्रहा व्योम्नि भ्रमन्तो दृश्यन्ते । तेषां5 च भगणाः पूर्वमेवोपदिष्टाः । क एते उच्चपाताः येषामत्र भगणोपदेशः क्रियते6 ? उच्यते - तेषामेव ग्रहाणां स्फुटगत्यादिपरिज्ञानोपायभूताः केचन संख्याविशेषाः7 । नैषां व्योम्नि दर्शनमस्ति । तथा च ब्रह्मगुप्तः -

प्रतिपादनार्थमुच्च प्रकल्पितं ग्रहगतेस्तथा पाताः ।
(ब्राह्मस्फुटसिद्धान्तः, 21.30)

इति ।

एते ग्रहोच्चपातभगणा8 कस्मिन् देशे कस्य दिनवारे9 कस्मात्कालात् कस्माच्च भचक्रप्रदेशादारभ्य प्रवृत्ता इत्येतन्न ज्ञायते । तत्प्रदर्शनार्थमाह— बुधाह्न्यजार्कोदयाच्च लङ्कायाम्10। बुधाह्नि इति दिनवार:। अजो मेषादिर्भचक्रप्रदेशः । अर्कोदय इति कालः । लङ्कायामिति देशः । तेन मीनमेषसन्धिस्थितस्य मध्यमार्कस्य लङ्कास्थाना11मुदयादारभ्य स्वासु12 कक्ष्यासु मेषादेः प्राङ्मुखेन स्वगमनेन स्वस्वभगणान् भोक्तुं कृतयुगादिबुधवारे प्रवृत्ता रव्यादयो ग्रहाः । अत्रानन्तरातीतकृतयुगादिमभिप्रेत्य बुधवार इत्युक्तम्। अन्यत् सर्वं कृतयुगोप्रक्रमसाधारणम्, वारमात्रं तु भिद्यते । तच्चोत्तरत्र प्रतिपादयिष्यामः13 । एवमिदं14 तृतीयं गीति15सूत्रम्॥ ४ ॥


व्याख्या- 1. E. व्यतिरिक्तया

2. D. प्रत्यङ्मुख्या गत्या

3. D. tr. पातपर्ययाः to before बुफिनच

4. C. adds इति

5. C. एषां

6. C. कृतः

7. D. विशेषभूताः

8. D. Gap for भगणाः to दिनवारे, just following.

9. C. कस्य वा दिने

10. D. Gap for बुधा to मेषादिर्भ, following.

11. C. लङ्कास्थात् ; D. E. लङ्कायां स्थितानां

12. C. E. स्वासु स्वासु

13. E. adds इति

14. D. om. इदं

15. D. om. गीति

आर्य० -- ३