पृष्ठम्:आर्यभटीयम्.djvu/74

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ ौतिकपाहे। [ गौतिकाछ भ्रमणप्राणाश्च तुल्यसंख्या इत्यर्थः । तस्माच्छायाद्यानयने संख्यासाम्येन प्राणेष्वेव ज्यादिकं कर्म प्रवर्तते । खयुगांशे । ख इत्यनेनानन्तरप्रदशिता खकक्ष्याभिधीयते । युगशब्देन युगभगणाः । खस्य युगांशः खयुगांशः । तस्मिन् खयुगांशे । प्रहजवः जवो वेगो गतिरित्यर्थः । एतदुक्तं भवति-खकक्ष्यायाः स्वैःस्वैर्युगभगणैर्भागे हृते यावन्ति योजनानि लभ्यन्ते तावद्योजनपरिमितेषु समवृत्तपरिधिषु' सर्वे ग्रहाः प्राङ्मुखेन स्वगमनेन गच्छन्तीति । भवांशेऽर्कः भस्य नक्षत्रकक्ष्याया वांशे षष्टव्यंशे, अर्कः श्रर्ककक्ष्या । श्रर्ककक्ष्यायाः पूर्वमेवोपदिष्टत्वान्नक्षत्रकक्ष्यैवाभिधीयते । श्रर्ककक्ष्या षष्टिगुणा नक्षत्रकक्ष्येत्युक्तं भवति । श्रप्रत्र च* ग्रहाणां योजनात्मिकाया गतेस्समत्वमुपर्यधोऽवस्थानक्रमो राश्यादिगतेर्वैषम्यं चोपदिष्टं भवति इत्यनुसन्धेयम् । एवमिदं पञ्चमं गीतिसूत्रम्* ।। ६ ।। | भूम्यावेयोंजनप्रमाणम् ] षष्ठेन गीतिसूत्रेण योजनपरिमाणं, भूम्यादीनां योजनव्यासप्रमाणं चोपदिशति नृषि योजनं, ञिला भूव्यासोऽर्केन्द्वोर्ध्रिञा', गिणि, क मेरोः । भृगु-गुरु-बुध-शनि-भौमाः शशि-ङ-ञ-ण-न-मांशकाः समार्कसमाः ॥ ७ ॥ श्रप्रस्य पदानि-नृषि, योजनं, ञिला, भूव्यासः, अर्कन्द्वोः, घ्रिञा, गिणि, क, मेरोः, भृगुगुरुबुधशनिभौमाः, शशि-ङ-ञ-ण-न-मांशकाः, समा, अर्कसमाः ॥ पुरुषाप्रमाणं* वक्ष्यति ‘स्चाङ्गुलो घहस्तो ना' (गीति० 8) इति” । नृणा षि पुरुषणाम् अष्टौ सहस्राणि अस्मिश्छास्त्रे योजनशब्देनोच्यन्ते । अिला मूलम्- 1. E. ध्रिञ

    • Tert-1. B. Hapl. om. of sqqaqftfy

2. B. z for 32 ver 3. D. merely reads qst Hit 4. B. adds wif 5. D. Gap for fit to sea, next line,