पृष्ठम्:आर्यभटीयम्.djvu/78

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Rė गीतिकापादे [ गीतिका० अस्य पदानि-बुध-भूगु-कुज-गुरु-शनि न-व-र-ष-हा', गत्वा, अंशकान्, प्रथमपाताः, सवितुः, अमीषां, च, तथा, द्वा-ञखि-सा-ह्दा°-हल्य-खिच्य, मन्दोच्चम् । बुधादीनां प्रथमपाताः मेषादितः प्रभृति न-व-र-ष-हांशकान् गत्वा व्यवस्थिताः* । तत्र बुधस्य पातो मेषादितः प्रभृति न विशति भागान् गत्वा स्थितः । भृगोः पातो व षष्टि भागान् गत्वा, कुजस्य र चत्वारिशद्भागान्,* गुरोः ष” अशीर्ति भागान्, शनेः ह शतं भागान् । एवं च विक्षेपमण्डलेनापमण्डलस्य सम्पातद्वयमस्ति । तयोरेकः पातो मेषादेः प्रभृति पठितभागे भवति । द्वितीयपातस्तस्मात् षड्राश्यन्तरित इति सिद्धम् । ‘प्रथम'पातग्रहणं तस्मात्प्रभृत्युक्तरतो विक्षेपः, द्वितीयाद्दक्षिणत इत्यस्य विशेषस्य' ज्ञापनार्थम् । अन्यथा 'एकः' पात इति वक्तव्यं स्यात् ॥ सवितुः श्रादित्यस्य अमीषां बुधादीनां पञ्चानां च* क्रमेण, मन्दोच्वं मन्दोच्चानि द्व-अखि-सा-हद'-हल्य-खिच्य-भागान्,” मेषादितः प्रभूत्येव गत्वा स्थितानि । तत्र सवितुर्मन्दोच्चं द्वा श्रष्टसप्तति भागान्, मेषादितः प्रभृति गत्वा स्थितम् । बुधस्य ञखि दशोत्तरशतद्वयं भागान्, भृगोः सा नवति भागान् कुजस्य हदा' श्रष्टादशोत्तरशतं भागान्, गुरोः हल्य साशीतिशतं* भागान्, शनेः खिच्या शतद्वयं षटुत्रिश'दुत्तरं भागान् गत्वा स्थितम् । गत्वेत्यनेन तेषामपि' गतिरस्तीति सूचितम् । चतुर्मुगेनाप्येषां “गतेर्मनागपि वैषम्याभावाद् भगणानुपदेशः। तथापि सम्प्रदायाऽविच्छेदार्थमुपदिश्यते खाकाशाष्टकृतद्विद्विव्योमेष्वद्रीषुवह्नयः ॥ युगं बुधादिपातानां विद्वद्धिः परिपठयते। व्याख्या - 1. E. रषाह for रषहा 2. D. gig for gat 3. B. Hapl. dupl. of eqafect: to Teat fresci:), just below; and om. of it from the next sentence: Aft: to ATTrt 4. E. चत्वारिशत भागान् 5. C. ST for S. 6. D. E. add गत्वा स्थिताः 7. E. विशेषणस्य 8. D. om. VT 9. D. g for get 10. B. C. द्वाअखीत्याद्युक्तभागान् 11. D. g3 for st 12. D. 3țificeriri 13. E. Gap for fat 14. D. E. एषामपि 15. D. Gap for trừ to otorvirgiềsĩ: