पृष्ठम्:आर्यभटीयम्.djvu/91

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ६ ] . त्रिभुजक्षेत्रफलम् ३९ एवमेतानि वर्ग-वर्गमूल-घन-घनमूलाख्यानि चत्वारि परिकर्माण्युतानि । एषु वर्गवर्गमूलयोः कालक्रिया-गोलोपयोगित्वं कर्ण-स्वाहोरात्रव्यासाधनियनादौ प्रसिद्धम् । इतरयोलौकिकगणिते वर्गचितिघनादावुपयोगः, न कालक्रियागोलयोरित्यवगन्तव्यम् ।। इति पञ्चमं सूत्रम् ।। ५ ।। [ त्रिभुजक्षेत्रफलम् | त्रिभुजक्षेत्रस्य' फलं ग्रार्यापूर्वार्धनाह त्रिभुजस्य फलशरीर समदलकोटीभुजार्धसंवर्गः । त्रयो बाहवो यस्य तत् त्रिभुजं क्षेत्रम् । त्रिसम-द्विसम-विषमत्वेन त्रिधा भिन्नस्य तस्य* फलशरीरं फलप्रमाणं, समदलकोटीभुजार्धसंवर्ग:, समदलकोटी8त्यवलम्बक:, भुजार्ध भूम्यर्धम् , अवलम्बकस्य भूम्यर्धस्य च वधस्त्रिभुजक्षेत्रस्य फल भवति । उद्देशकः-- [व्रिसमस्य]* भुजा यस्य द्वादश, द्विसमस्य च । त्रयोदश श्रुती भूमिर्दश बूहि तयो: फले । अत्र त्रिसमस्य' न्यासः— परिलेख: 4 व्याख्या-1. C. क्षेत्रे 2. A. B. भिन्नम् । तस्य ; D. त्रिघाभिधानस्य ; E. om. तस्य 3. A D. Tr : अवलम्बक: समदलकोटी 4. All mss. read fayreq 5. D. E, om. TT ft