पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१० आर्षेयबाह्मणम्

ओंकारान्त आद्यपात् प्रस्ताव इत्यर्थः । स तूच्यते हि गायत्रस्य पादेन प्रस्तावः सर्वत्राष्टाक्षरेणेति धनंजय इति ॥ १६ ॥

अस्य सान्नोऽवसाने दायो आ इति पठ्यते । तद्विषये किंचिदाह -

हुम् आ वेत्यन्तस्तोमो वृद्धो वा ॥ १७ ॥

हुम् आ इति तत्रायमन्तस्तोमः । गायत्रसाम्नोऽन्ते प्रयुज्यमानः स्तोभो वा वृद्धो वा। आर्चिकमक्षरमेवैतद्रूपेण परिणतं न स्तोभ इति । वेति अस्य साम्नः स्तोभत्वं वैकल्पिकम् । अत उत्तरासु यत्र गानमतिदिश्यते तत्र स्तोभपक्षे हि आ वेत्यन्ते प्रयोक्तव्यम् । इतरथा आर्चिकमेवाक्षरमेवंरूपम् ॥ १७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षयब्राह्मणे प्रथमाध्यायस्य प्रथमः खण्डः ॥ १ ।।