पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः

इन्द्रस्य च वृषकम् ॥३.४.१॥

सत्यमित्था वृपेदप्ति (सा. २६३) इत्यत्रैकं साम । सत्यमित्था (ग्राम. ७.४.२६३. १) इति मन्द्रचतुर्थादिकम् इन्द्रस्य च वृषकम् ॥१॥

द्यौते द्वे। द्वैगते वा ॥ ३.४.२॥

यच्छकासि (सा. २६४ ) इत्यत्र सामद्वयमुत्पन्नम् । यच्छनासी (ग्राम. ७. ४. २६४. १) इति मन्द्रद्वितीयादिक प्रथमम् । यच्छक्रासि- परावतिदोहाइ (ग्राम. ७. ४. २६४. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । एते द्वे द्यौते । वा अथवा द्वैगते द्विगतं स्वर्ग प्रति तत्साधने ॥ २ ॥

कार्तयशं च कार्तवेशं वा ॥ ३.४.३ ॥

अभि वो वीरमन्धसः (सा. २६५) इत्यत्रैकं साम । अभी(भिः) वोवीरम् (ग्राम. ७. ४. २६५. १) इति मन्द्रचतुर्थादिकं कार्तयशम् । अथवा कार्तवेशम् एतन्नामकम् ॥ ३ ॥

इन्द्रस्य च शरणम् ॥ ३.४.४॥

इन्द्र विधातु शरणम् (सा. २६६) इत्यत्रैकं साम । इन्द्रत्रिधातु (ग्राम. ७. ४. २६६. १) इति चतुर्थमन्द्रादिकम् इन्द्रस्य च शरणम् ॥ ४ ॥

श्रायन्तीयं च ॥३.४.५॥

श्रायन्त इव सूर्य ( सा. २६७) इत्यत्रैक साम । श्रायन्तइव- सूरायाम् (ग्राम. ७. ४. २६७. १) इति मन्द्रचतुर्थादिकं श्रायन्तीयम् । एतन्नामधेयम् । श्रायन्तशब्दात् मतौ छः सूक्तसाम्नोः (पा. ५. २. ५९) इति मत्वर्थीयश्छः ॥ ५॥