पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ आर्षेयब्राह्मणम्


इन्द्रस्य प्रियाणि त्रीणि वसिष्ठस्य वा ॥ ३.४.१० ॥

क्वेयथ क्वेदसि (सा. २७१) इत्यत्र सामत्रयमुत्पन्नम्। क्वेयथा (ग्राम, ७.४.२७१.१) इति मन्द्रादिकम् । कुवाकुवा (ग्राम. ७.४.२७१.२) इति चतुर्थमन्द्रादिकम् । क्वेयथकूवाइदासी (ग्राम. ७. ४. २७१. ३) इति द्वितीयतृतीयादिकम् । एतानि त्रीणि इन्द्रस्य प्रियाणि । अथवा वसिष्ठस्य प्रियाणि एतन्नामधेयानि ॥ १० ॥

इन्द्रस्य बैरूपाणि त्रीणि । वसिष्ठस्य वा ॥ ३.४.११ ॥

वयमेनमिदा टोपीप (सा. २७२) इत्यत्र सामत्रयमुत्पन्नम् । वयमेनाम् आइदाऔहोवा (ग्राम. ७.४.२७२.१) इति मन्द्रक्रुष्टादिकम् । वयमेनामिदाहायाः (ग्राम. ७. ४. २७२. २) इति मन्द्रकुष्टादिकम् । वयमेनमिदा (ग्राम. ७. ४. २७२. ३) इति चतुर्थतृतीयादिकम् । एतानि त्रीणि इन्द्रस्य वैरूपाणि । अथवा वसिष्ठस्य वैरूपाणि ॥ ११ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये तृतीयाध्याये चतुर्थः खण्डः ॥ ४ ॥