पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः खण्डः


गौरीवीतेः प्रहितौ द्वौ । वासुक्रे वा ॥३.६.१॥

इत ऊती वो अजरम् (सा. २८३) इत्यत्र सामद्वयोत्पत्तिः । इतऊती (ग्राम. ७. ६. २८३. १) इति मन्द्रादिकम् । इतऊतीवो अजागम् (ग्राम. ७.६.२८३.२) इति मन्दमन्द्रादिकम् । एते द्वे गौरीवीतेः प्रहितौ एतन्नामके। प्रहितशब्दस्य पुंलिङ्गत्वात्तद्विशेषण द्वावितिपदं पुंलिङ्गमिति न विरोधः । अथवा वासुके वा । वासुक्रो नाम ऋषिः तेन दृष्टे वा ॥ १ ॥

आत्रे द्वे ॥ ३.६.२॥

मोषु त्वा वाघतश्च न (सा. २८४) इत्यत्र सामद्वयोत्पत्तिः। मोषुत्वाचा (ग्राम. ७. ६. २८४. १) इति मन्द्रादिकम् । मोषुत्वावाघतश्चनाए (ग्राम. ७.६.२८४.२) इति मन्द्रादिकम् । एते आत्रनामकें ॥ २॥

गौरीवीते द्वे ॥३.६.३॥

सुनोत सोमपाने (सा. २८५) इत्यत्र सामद्वयोत्पत्तिः । सुनोत- सोमपानाए (ग्राम. ८. ६. २८५. १) इति मन्द्रादिकम् । सुनोतसोमपा (ग्राम. ८. ६. २८५. २) इति चतुर्थतृतीयादिकम् । एते द्वे गौरीवीत- नामके ॥ ३॥

वामदेव्यं च ॥३.६.४॥

यः सत्रहा विचर्षणिः (सा. २८६) इत्यत्रैकं साम । यःसत्रहा