पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः अध्यायः (६) १०९


वैयश्वं च ॥ ३.६.८॥

उभयं शृणवच्च न (सा. २९०) इत्यत्रैकं साम । उभयं शृणवञ्चनाए (ग्राम. ८. ६. २९०. १) इति मन्द्रादिकं वैयश्वम् । चकारो वाक्य- भेदद्योतनार्थः ॥ ८ ॥

इन्द्रस्य च सहस्रायुतीये द्वे । प्रजापतेर्वा महोविशीये॥३.६.९॥

महे च न त्वा (सा. २९१) इत्यत्र सामद्वयम् । महेचनोवा (ग्राम. ८. ६. २९१. १) इति मन्द्रचतुर्थादिकम् । महेचानत्वाअद्रियाः (ग्राम. ८. ६. २९१. २) इति मन्द्रद्वितीयादिकम् । एते द्वे इन्द्रस्य च सहस्रायुतीये सहस्रायुतशब्दयुक्ते । न सहस्राय नायुताय इति सहस्रायुतशब्दौ विद्यते । अथवा प्रजापतेर्वा महोविशीये एतन्नामधेये सामनी ॥ ९ ॥

इन्द्राण्याः साम ॥ ३.६.१० ॥

वस्यां इन्द्रासि मे पितुः (सा. २९२.) इत्यत्र स्मैकम् । वस्या इन्द्रासिमे (ग्राम. ८. ६. २९२. १) इति चतुर्थमन्द्रादिकम् इन्द्राण्याः साम ।। १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आपयेब्राह्मणभाष्ये तृतीयाध्याये वष्ठः खण्डः ।। ६ ।।