पृष्ठम्:आर्षेयब्राह्मणम्.djvu/११

अस्य पुटस्य पुटपरिशीलनं न आवश्यकम् ।

द्वितीयः खण्डः

अथ सामवेदच्छन्द:साम्नां च बहवो ऋषयः । ऋगाश्रितत्वेन नानासामानि गीतानि । तेषाम् ऋषिसंबन्धं दर्शयति --

गोतमस्य पर्कावभितः। कश्यपस्य बर्हिष्यं मध्यमम् ॥१.२.१॥

अग्न आयाहि वीतय (सा. १) इत्यस्यामाद्यायामृचि सामत्रयमुत्पन्नम्। तत्र प्रथमम् ओग्नाई (ग्राम. १.१.१.१) इत्यादिकं चतुर्थस्वरादिकं साम गोतमपर्कनामधेयम् । पर्कः पृची संपर्के इत्यस्माद्धातोः घञ् कः । दर्शने संबन्धः । तेन दृष्टमित्यर्थः । द्वितीयम् अग्न आयाहीवी (ग्राम. १.१.१.२) इत्यादि चतुर्थमन्द्रस्वरादिकं कश्यपस्य बर्हिष्यनामकम् । बर्हिषि यज्ञे साध्यं बर्हिष्यम् , तेन दृष्टम् । तृतीयमग्न आयाहि । वा इतयाइ (ग्राम.१.१.१.३) इत्यादिकं चतुर्थमन्द्रस्वरादिकं गोतमस्य पर्कः ॥ १ ॥

सौपर्णं च वैश्वमनसं च ॥ १.२.२ ॥

त्वमग्ने यज्ञानाम् (सा. २) इत्यस्यामेकं सामोत्पन्नम् । त्वमग्ने यज्ञानाम् (ग्राम. १.१.२.१) इति चतुर्थमन्द्रादिकं तत् सौपर्णम् । यज्ञः सुपर्णरूपः तत्संबन्धि । तस्येदमित्यण् । यज्ञो वै देवेभ्योऽपाक्रामत् । स