पृष्ठम्:आर्षेयब्राह्मणम्.djvu/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्डः


इन्द्रस्य क्षुरपविणी द्वे । स्यौमरश्मे द्वे ॥३.१०.१॥

अब द्रप्सो अंशुमतीम् (सा. ३२३) इत्यत्र चत्वारि सामान्युत्- पन्नानि । अवद्राप्साः (ग्राम. ८.१०.३२३.१) इति द्वितीयतृतीयादिकं प्रथमम् । अवद्रप्साए (ग्राम.८.१०.३२३.२) इति मन्द्रमन्द्रादिकं द्वितीयम् । एते द्वे इन्द्रस्य क्षुरपविणी एतन्नामधेये। आ(अ) बद्रप्सो अश्शुमतीम् । औहोइ (ग्राम. ८. १०. ३२३. ३) इति तृतीयचतुर्थादिकम् । अबद्रप्सो अशुमतीम् । ए (ग्राम. ८.१०. ३२३. ४) इति तृतीयचतुर्थादिकम् । एते द्वे स्यौमरश्मे ॥१

धृषतो मारुतस्य सामनी द्वे । द्युतानस्य वा मारुतस्य ॥३.१०.२॥

वृत्रस्य त्वा (सा. ३२४) इत्यत्र सामद्वयमुत्पन्नम् । हा । ओहा (ग्राम. ८.१०. ३२४.१) इति द्वितीयतृतीयादिकं प्रथमम् । होये (ग्राम.. ८.१०. ३२४.२) इति क्रुष्टद्वितीयादिकं द्वितीयम् । एते द्वे मारुतस्य धृषतः सामनी । अथवा मारुतस्य द्युतानस्य सामनी ॥ २ ॥

सोमसामनी द्वे ॥३.१०.३॥

विधुं दद्राणम् (सा. ३२५) इत्यत्र सामद्वयम् । वीधूम् (ग्राम. ८. १०. ३२५. १) इति चतुर्थमन्द्रादिकम् । हि । आ । हि । हिं । विधु- दद्रा (ग्राम. ८.१०. ३२५.२) इति द्वितीयतृतीया ( तृतीयचतुर्था) दिकम् । एते द्वे सोमसामनी ॥ ३ ॥