प्रथमः अध्यायः (२) १३
कम् । अत्र उतनामविपर्ययेण चतुरो विकल्पान् दर्शयति – औशने वाभितः शैरीषं मद्धयमं शैरीपे वोत्तरे सर्वाणि चौशनानि सर्वाणि च शेरीपाणीति । वाशब्दः पक्षान्तरद्योतनार्थः । प्रथमतृतीये सामनी औशने एतन्नामके । मध्यमं द्वितीय शैरीषनामकम् । वा अथवा इत (उत्त!) रे द्वितीयतृतीये सामनी शैरीपनामधेये । प्रथमं त्वौशनमित्याल्लभ्यत इति नोक्तम् । सर्वाणि त्रीणि सामानि औशनानि उशनसा दृष्टानि । यदा सर्वाणि वा शैरीषाणि । एतैर्नामविकल्पैर्व्यवहारः प्रयोगान्तरेषु द्रष्टव्यः ॥ ५ ॥
इन्द्रस्य सांवर्गवार्त्रघ्ने द्वे ॥ ६ ॥
त्वं नो अग्ने महोभिः पाहि (सा. ६) इत्यस्यां सामद्वयमुत्पन्नम् । तत्र त्वं नो या (ग्राम. १. १.६.१) इत्यादिकं प्रथमं मन्द्रस्वरादिकं मांवर्गनामकम् , [त्वां] त्वं नो अग्ने म (ग्राम. १. १. ६.२) इत्यादि चतुर्थमन्द्रस्वरादिकं द्वितीयमिन्द्रवार्त्रघ्ननामधेयम् ॥ ६॥
साकमश्वस्य शौनःशेपेः सामनी द्वे ॥ १.२.७ ॥
एहयूषु ब्रवाणि त (सा. ७) इत्यस्यां सामद्वयमुत्पन्नम् । एहयूषु ब्रवाणा इताइ (ग्राम. १.१. ७.१) इत्यादि मन्द्रद्वितीयस्वरादिकं प्रथमम् । एहयूषुब्रवौहोणाइताइ (ग्राम. १. १. ७. २) इत्यादि मन्द्रस्वरादिकं द्वितीयम् । एते द्वे शुनःशेपपुत्रस्य साकमश्वस्य संबन्धिनी सामनी । अत्र ब्राह्मणम् - साकमश्वेनाम्यक्रामन् । यत् साकमश्वेनाभ्यक्रानंस्तस्मात् साकमश्वमिति ॥ ७॥